________________
परिजकासमेतः।
३०० ये अवस्तुनी न तयोर्गम्यगमकत्वमस्ति, यथा खपुष्पशशशृङ्गयोः, अवस्तुनी च वाच्यवाचकापोहौ भवेतामिति व्यापकविरुद्धोपलब्धेः ॥ ९६४ ॥
ननु च मेघामावादृष्ट्यभावप्रतीतेरनैकान्तिकता हेतोरित्याह-वृष्टिमेघासतो. रित्यादि।
वृष्टिमेघासतोदृष्ट्वा यद्यनैकान्तिकं वदेत् ।
वस्त्वस्त्वेवात्र मत्पक्षे भवत्पक्षेऽप्यदः कुतः ॥ ९६५ ॥ वृष्टिमेघयोरसती-असत्त्वे, अभावाविति यावत् । भावप्रधानत्वान्निर्देशस्य । तयोर्दष्वा-गम्यगमकमित्यधिकृतम् । यद्यनैकान्तिकमवस्तुत्वादिति हेतुं वदेद्वौद्धस्तदप्ययुक्तम् , यस्मात्तद्विविक्ताकाशालोकात्मकं वस्तु मत्पक्षेऽत्रापि वृष्टिमेघाभावप्रयोगेऽस्त्येव । अभावस्य वस्तुत्वप्रतिपादनात् । भवतस्तु बौद्धस्य पक्षे अदोऽपि-एतदृष्टिमेघाभावयोर्गम्यगमकत्वं कुतः-नैव । अपिशब्दो भिन्नक्रमः, अद इत्यस्यानन्तरं सम्बध्यते । तेनायमर्थो भवति । न केवलमपोहयोर्विवादास्पदीभूतयोर्गम्यगमकत्वं भवतो न युक्तम् , एतदपि वृष्टिमेघाभावयोर्गम्यगमकत्वं न युज्यत एवेति ॥ ९६५ ॥
किंच-यदेतद्भवद्भिरन्वयोपसर्जनयोर्व्यतिरेकप्रधानयोः शब्दलिङ्गयोः स्वविषयप्रतिपादकत्वं वर्ण्यते, यच्च-"अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽपि दर्शनात् । श्रुतेः सम्बन्धसौकर्य न चास्ति व्यभिचारिते"त्यादि वर्णितम् , तदपोहाभ्युपगमे न युक्तमित्येतत्प्रतिपादयन्नाह-विधिरूपश्चेत्यादि ।
विधिरूपश्च शब्दार्थों येन नाभ्युपगम्यते।
न भवेद्व्यतिरेकोऽपि तस्य तत्पूर्वको ह्यसौ ॥९६६ ॥ तत्पूर्वक इति । विधेः पूर्वकः । विधेर्निवृत्तिलक्षणत्वाद्व्यतिरेकस्येति भावः । किंच-नीलोत्पलादिशब्दानां विशेषणविशेष्यभावः सामानाधिकरण्यं च यदेतल्लोकप्रतीतं तस्यापह्नवोऽपोहवादे प्राप्नोति ॥ ९६६ ॥
यञ्चेदमुच्यते-विशेषणविशेष्यत्वसामानाधिकरण्यसमर्थनार्थम्-"अपोषभेदाद्भिन्नार्थाः खार्थभेदगतौ जडाः । एकत्रामिन्नकार्यत्वाद्विशेषणविशेष्यकाः ॥ तन्मात्राकाङ्क्षणाद्भेदः स्वसामान्येन नोज्झितः । नोपात्तः संशयोत्पत्तेः साम्ये चैकार्थता तयोः ॥” इति । तदेतन्नोपपद्यत इति दर्शयन्नाह-अपोहमानवाच्यत्वमित्यादि ।