________________
३०६
तन्त्वसङ्ग्रहः ।
भवद्भिः शब्दभेदोऽपि तन्निमित्तो न लभ्यते । न ह्यसाधारणः शब्दो वाचकः प्रागदृष्टितः ॥ ९६९ ॥ तत्र शब्दान्तरापोहे सामान्ये परिकल्पिते । तथैवावस्तुरूपत्वाच्छब्दभेदो नं कल्प्यते ॥ ९६२ ॥ वाचकानां यथा नैव वाच्यवाचकयोर्मिथः । न चाप्यपोह्यभेदेन भेदोऽस्तीत्युपपादितम् ॥ ९६३ ॥
शब्दानां भिन्नसामान्यवचनानां विशेषवचनानां च परस्परतो भेदः शब्दभेदः । निमित्त इति । स वासनाभेदो वाच्यापोहभेदो वा निमित्तं कारणमस्येति तन्निमित्तः । ननु प्रत्यक्षत एव शब्दानां कारणभेदाद्विरुद्धधर्माध्यासाच्च भेदः प्रसिद्ध एवेत्याह-न ह्यसाधारण इत्यादि । वाचकं हि शब्दमधिकृत्यैतदुच्यते, न च श्रोत्रज्ञानावसेयो यः स्वलक्षणात्माऽसाधारणशब्दो वाचकः । कस्मादित्याह - प्रागदृष्टि इति । यो हि व्यवहारकालावस्थायी शब्दः स व्यवहारकालात्प्राक् सङ्केतकाले न दृष्टः, यो दृष्टस्तस्य चिरनिरुद्धत्वान्न तेन व्यवहारः, न च सङ्केतकाले यो न दृष्टस्तेन व्यवहारो युक्तोऽतिप्रसङ्गात् । तस्मान्न स्वलक्षणस्य वाचकत्वम् । भवता - मपि चात्र विवाद एव । यथोक्तम् - "नार्थशब्द विशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात्सामान्यं तूपदेक्ष्यते ॥” इति । तस्माद्वाचकं शब्दमधिकृत्याभिधानाददोषः । तत्रैवमवस्थिते सति शब्दान्तरापोहः शब्दसामान्यं वाचकं यदि कल्प्यते, यथार्था - न्तरापोहोऽर्थसामान्यं, तदा तथैव — पूर्वोक्तेन विधिना संसृष्टैकत्वनानात्वेत्यादिनोकेन, वाच्यापोहानामिव शब्दापोहानामपि परस्परतो भेदो न घटते । नीरूपत्वात् । यथाच वाचकानां परस्परतो भेदो न सङ्गच्छते, एवं वाच्यवाचकयोरपि मिथ: परस्परतो भेदो न कल्प्यते, निःस्वभावत्वात् । स्यादेतदपोह्यभेदेन भेदो भविष्यतीत्यत आह-न चापीत्यादि । यथा चापोह्यभेदादपि भेदो न विकल्प्यते तथा "न विशेष: स्वतस्तस्ये” त्यादिना प्रतिपादितम् ॥ ९६९ ॥ ९६२ ॥ ९६३ ॥
-
तदेवं प्रतिज्ञायाः प्रतीत्यभ्युपेतबाधा प्रतिपादिता । साम्प्रतं वाच्यवाचकत्वाभावप्रसङ्गापादनाभ्युपेतबाधादिदोषं प्रतिपिपादयिषुः प्रमाणयन्नाह - न गम्येत्यादि ।
न गम्यगमकत्वं स्यादवस्तुत्वादपोहयोः । भवत्पक्षे यथा लोके खपुष्पशशशृङ्गयोः ॥ ९६४ ॥