________________
३०५
पलिकासमेतः । यद्यपि सच्छब्दादन्येषु गवादिशब्देषु वस्तुनः पर्वतादेरपोधता सिध्यति, सच्छ. ब्दस्य त्वभावाख्यादपोगान्नान्यदपोपमस्ति, अभाव एवापोह्य इत्यर्थः । असद्व्यवहारव्यवच्छेदेन सच्छब्दस्य प्रवृत्तत्वात् ॥ ९५८ ॥ , ततश्च को दोष इत्याह-तत्रासतोऽपीत्यादि ।।
तत्रासतोऽपि भावत्वमिति क्लेशो महान्भवेत् ।
तदसिद्धौ न सत्ताऽस्ति न वा सत्ता प्रसिद्ध्यति ॥ ९५९ ॥ पूर्ववदभावाभाववर्जनादसतोऽपोहे वस्तुत्वमेव स्यात् । ततश्चापोहवादिनोऽभ्युपगमादिविरुद्धमसतोऽपि वस्तुत्वं प्रसक्तमिति महद्भत कष्टमापतितम् । अस्त्वभावस्थापि वस्तुत्वमिति चेदाह-तदसिद्धावित्यादि । तस्याभावस्यासिद्धौ सत्यां न सत्ता कस्सचिद्भावस्य सिद्ध्येत् । अभावव्यवच्छेदेन तस्य भवन्मतेन स्थितलक्षणत्वात् । तस्य चामावस्यापोह्यत्वे सति वस्तुत्वप्रसङ्गेन स्वरूपासिद्धरसत्तापि न सिद्धपति, तस्याः सत्ताव्यवच्छेदरूपत्वात् , सत्तायाश्च यथोक्तेन प्रकारेणायोगात् ॥ ९५९ ॥
यत्पूर्वमुक्तम्-"अपोझैः स बहिःसंस्थैर्भिद्यते"त्यादि, यक्षोक्तम्-"अवस्तु'त्वादपोहानां नैव भेद" इत्यादि । तत्र केचिद्वौद्धाः परिहारमाहुः-न खल्वपोहभेदा (दा) धारभेदावाऽपोहानां भेदोऽपि त्वनादिकालप्रवृत्तविचित्रवितत्त्वार्थविकल्पवासनाभेदान्वयैस्तत्त्वतो निर्विषयैरपि भिन्नविषयालम्बिभिरिव प्रत्ययैर्भिन्नेष्वर्थेषु बायेषु मिन्ना इवात्मान इवाखभावा अप्यपोहाः समारोप्यन्ते, ते च तथा तैः समारोपिता भिन्नाः सन्तश्च प्रतिभासन्ते, तेन वासनाभेदाढ़ेदः सद्रूपता चापोहानां भवि. व्यतीत्यत्राह-न चापीत्यादि ।
न चापि वासनाभेदाझेदः सद्रूपताऽपि वा।
अपोहानां प्रकल्प्येत न यवस्तुनि सा मता ॥९६० ॥ न वस्तुनि वासनेत्येवं मन्यते । निर्विषयो न कश्चित्प्रत्ययोऽस्तीति निर्लोडितमेतद्विज्ञानवादविचारे । ततश्च वितथार्थानां विकल्पानामयोगात्तदाहिताऽपि वासना *कुतो भविष्यति । अवस्तुनीति । आलम्बनभूते वस्तुन्यसति निर्विषयविज्ञानायोगेन वासनाधायकविज्ञानाभावात्कुतो वासनेत्यर्थः । ततश्च वासनाभावास्कुतो वासनाकतोऽपोहानां मेदः सदूपता वा भविष्यतीति भावः ॥ ९६० ।।
एवं तावद्वाच्यामिमतमपोहं निराकृत्य वाचकामिमतमपि निराकर्तुमाह-भवद्भिरित्यादि।