________________
तस्वसः ।
व्यतीनामिति । असाधारणवस्तुरूपाणामवाच्यत्वामापोहता, अनुजल नित. कर्तुमशक्यत्वात् । अपोखेत सामान्यमिति । तल वाच्यत्वादिति भावः ॥९५५॥
स्यादेतद्यदि नाम सामान्यमपोहोत, तथापि कथं तस्य वस्तुत्वं सिध्यतीत्यत आह -नापोह्यत्वमित्यादि ।
नापोखमभावानामभावाभाववर्जनात् ।
व्यक्तोऽपोहान्तरापोहस्तस्मात्सामान्यवस्तुनः ॥ ९५६ ॥ अभावानामिति । अपोहानां । यदि भवेद्वस्तुत्वमेव स्यात् । अत्रोपपत्तिमाहअभावाभाववर्जनादिति । अभावानामभावरूपत्यागादित्यर्थः । एतदुक्तं भवतियद्यपोहानामपोह्यत्वं भवेत् , तदेषामभावरूपत्वं प्रतिषिद्धं भवेत् , तत्त्रतिषेधे व भवत्यभावैरभावरूपत्वं त्यक्तं स्यात् । ततश्चाभावानामपोहलक्षणानामभावरूपत्यागा. द्वस्तुत्वमेव भवेदित्येके । अन्ये त्वाहुः-अभावाभाववर्जनादिति । अभावानामभावाभावादित्यर्थः । न ह्यभावस्वभावा अपोहा अपोहा युज्यन्ते । वस्तुविषयत्वात्प्रतिषेधस्पेति यावत् । तस्माद्व्यक्तः स्फुटोऽपोहान्तरेऽश्वादावपोहान्तरस्य गवादेरपोहो भवन्सामान्यभूतस्यैवेति निश्चीयते । अतः सिद्धमपोह्यत्वाद्वस्तुत्वं सामान्यस्येति ॥९५६ ॥
अपिचापोहानां परस्परतो वैलक्षण्यं वा स्यादवलक्षण्यं वा, तत्राचे पक्षे तावदोषमाह-अभावस्य चेत्यादि ।
अभावस्य च योऽभावः स चेत्तस्माद्विलक्षणः ।
भाव एव भवेनो चेद्गौरगौस्ते प्रसज्यते ॥ ९५७ ॥ अभावस्य-अगोशब्दामिधेयस्य अभावो यो गोशब्दाभिधेयोऽर्थः । स चेत्तस्मात्पूर्वोक्तादभावाद्विलक्षणोऽन्य इत्यर्थः । तदानीं भाव एव भवेत् , अभावनिवृत्तिमात्ररूपत्वाद्भावस्य । नो चेद्विलक्षणस्तदा गौरप्यगोर्भवतः प्रसज्यते तदवलक्षण्येन तादात्म्यप्रतिपत्तेः ।। ९५७ ॥
स्यादेतद्वाश्वादिशब्दैः स्खलक्षणान्येव परस्परतो व्यावृत्तान्यपोझन्ते, नाभावाः, तेनाऽऽपोह्यत्वेन तेषां वस्तुत्वप्रसङ्गापादानं नानिष्टमित्यत आह यद्यपीत्यादि ।
यद्यप्यन्येषु शब्देषु वस्तुनः स्यादपोचता। सच्छन्दस्य स्वभावाख्यानापोखं मिममिष्यते ॥९५८ ॥