________________
पञ्जिकासमेतः ।
३०३
पोहः शब्दलिङ्गाभ्यां प्रतिपाद्यत इत्यभिधीयते नतु प्रसज्यमात्रप्रतिपादनात् तेन यथोक्तः सर्वः प्रतीत्यादिविरोधो न भविष्यतीत्याशङ्कयाह -- यद्यपीत्यादि । यद्यप्यपोहनिर्मुक्ते न वृत्तिः शब्दलिङ्गयोः ।
युक्तस्तथापि बोधस्तु ज्ञातुं वस्त्ववलम्बते ॥ ९५२ ॥
यदि नाम तद्वस्त्वन्यतो व्यावृत्तं, तथापि तत्रोत्पद्यमानः शब्दलिङ्गोद्भवो बोधोऽन्यव्यावृत्तिं सतीमपि नावलम्बते, किं तर्हि ? वस्त्वंशमेवाभिधावति, तत्रैवानुरागात् । य एवांशो वस्तुनः शाब्देन लैङ्गिकेन वा प्रत्ययेनावसीयते स एव तस्य विषयो नानवसीयमानः सन्नपि, नहि मालतीशब्दस्य गन्धादयो विद्यमानतया वाच्या व्यवस्थाप्यन्ते ॥ ९५२ ॥
न चाप्येतद्युक्तम्, यदन्यव्यावृत्ते वस्तुनि शब्दलिङ्गयोः प्रवृत्तिरित्येतद्दर्शयति — त्यादि ।
न चासाधारणं वस्तु बुद्धौ विपरिवर्त्तते ।
न चापि निर्विकल्पत्वात्तस्य युक्ताऽधिगम्यता ॥ ९५३ ॥ अन्यव्यावृत्तं हि वस्तु भवद्भवतां मतेन स्वलक्षणमसाधारणमेव भवेत्, नच तच्छब्दलिङ्गजायां बुद्धौ विपरिवर्त्तत इति भवतां मतम् । तस्य निर्विकल्पबुद्धिप्राह्मस्वात् । शब्दलिङ्गजबुद्धेश्च सामान्यलक्षणविषयत्वात् । अथापि स्वलक्षणविषयत्वमस्या अभ्युपगम्यते, तदपि युक्तया न सङ्गच्छत इति दर्शयन्नाह - न चापीत्यादि । न ह्यसाधारणं वस्तु शब्दलिङ्गजप्रत्ययाधिगम्यं, तत्र सर्वविकल्पानां प्रत्यस्तमयात् । तथाहि — विकल्पो जात्यादिविशेषणसंस्पर्शेनैव प्रवर्त्तते नच शुद्धवस्तुपरिग्रहेण ॥ ९५३ ॥
अथापि स्याच्छब्देनागम्यमानमप्यसाधारणं वस्तु व्यावृत्त्या विशिष्टमित्युच्यत इत्याह — शब्देनागम्यमानं चेत्यादि ।
शब्दनागम्यमानं च विशेष्यमिति साहसम् । तेन सामान्यमेष्टव्यं विषयो बुद्धिशब्दयोः ॥ ९५४ ॥ प्रकारान्तरेणापि सामान्यस्य वस्तुत्वं साधयन्नाह – यदेत्यादि ।
यदा चाशब्दवाच्यत्वं न व्यक्तीनामपोह्यता । तदाऽपश्येत सामान्यं तस्यापोहाच वस्तुता ॥ ९५५ ॥