________________
३०२
तत्त्वसकहः।
म्भवान तेन खबुद्ध्या रज्यतेऽश्वादिः । स्यादेतदज्ञातोऽप्यपोहो विशेषणं भविष्यतीत्याह-विशेष्येत्यादि । न यगृहीतविशेषणा विशेष्ये बुद्धिर्भवति । न शातं विशेषणं यस्याः सा तथोक्ता ॥ ९४८ ॥ __ भवतु नामापोहबोधनम् , तथापि वस्तुनि तदाकारबुद्धषभावात्तस तद्विशेषणम." युक्तमिति दर्शयन्नाहन चान्यरूपमित्यादि ।
न चान्यरूपमन्यादृकुर्याज्ज्ञानं विशेषणम् ।
कथं चान्यादृशे ज्ञाने तदुच्येत विशेषणम् ॥ ९४९ ॥ सर्वमेव हि विशेषणं स्वाकारानुरूपं विशेष्ये बुद्धिं जनयदृष्टम् । न त्वन्यादृशं विशेषणमन्यादृशी बुद्धि विशेष्ये जनयति । न हि नीलमुत्पले रक्तमिति प्रत्ययमुसादयति, दण्डो वा कुण्डलीति । न चात्राश्वादिष्वभावानुरक्ता शाब्दी बुद्धिरुपजायते । किं तर्हि ? भावाकाराध्यवसायिनी । स्यादेतदन्यादृशमपि ज्ञानं जनयद्विशेषणमुच्यत इत्याह-कथं चान्यादृश इत्यादि । अन्यादृशे-विशेषणाननुरूपे ॥ ९४९॥ यदि स्यात्को दोष इत्याह-अथान्यथेत्यादि ।
अथान्यथा विशेष्येऽपि स्याद्विशेषणकल्पना।
तथा सति हि यत्किश्चित्प्रपद्येत विशेषणम् ॥ ९५० ॥ अथ यदि भवतो विशेषणाननुरूपतयाऽन्यथा व्यवस्थितेऽपि विशेषे स्याद्विशेषणकल्पना, तथा सति सर्वमेव नीलादि सर्वस्य विशेषणं स्यात्, ततश्चाव्यवस्था स्यात् ॥ ९५०॥ अथ स्यादपोहेनापि स्वबुद्धथा विशेष्यं वस्तु रज्यत इत्याह-अभावगम्येत्यादि।
अभावगम्यरूपे च न विशेष्येऽस्ति वस्तुता।
विशेषितमपोहेन वस्तु वाच्यं न तेऽस्त्यतः ॥ ९५१ ॥ अभावोऽपोहः, तेनापोहेन ताद्रूप्यागम्यम्-अभावगम्यम् , अभावगम्यं रूपं । खभावो यस्य वस्तुनस्तत्तथोक्तम् । यद्यभावरूपेण वस्तुनः प्रतीतिः स्यात्तदा तस्य वस्तुत्वमेव न स्यात् , भावाभावयोर्विरोधात् । प्रकृतमुपसंहरमाह-विशेषितमित्यादि ॥ ९५१॥
सादेतदन्यव्यावृत्त एव वस्तुनि शब्दलिगायोः प्रवृत्तिदृश्यते, नापोहरहिते, वेना.