________________
पविकासमेतः ।
तदभाव इति । गोरभावे । आचार्यदिङ्गागेन विशेष्यविशेषणभावसमर्थनार्थमुक्तम् — “नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानर्थानाहु" रित्यादि । तदेतद्युक्तमिति दर्शयन्नाह – नाधाराधेयेत्यादि । यस्य हि येन सह कश्चिद्वास्तवः ' सम्बन्धः सिद्धो भवेत्तत्तेन विशिष्टमिति युक्तं वक्तुम् । न च नीलोत्पलयोरनीलोत्पलव्यवच्छेदरूपत्वेनाभावरूपयोराधाराधेयादिसम्बन्धः सम्भवति नीरूपत्वात् । आदिग्रहणेन संयोगसमवायैकार्थसमवायादिसम्बन्धग्रहणम् । न चासति वास्तवे सम्बन्धे तद्विशिष्टस्य प्रतिपत्तिर्युक्काऽतिप्रसङ्गात् ॥ ९४५ ॥
Tr
अथापि स्यान्नैवास्माकमनीलादिव्यावृत्त्या विशिष्टोऽनुत्पलादिव्यवच्छेदोऽभिमतो यतोऽयं दोषः स्यात् । किं तर्हि ? अनीलानुत्पलाभ्यां व्यावृत्तं वस्त्वेव तथा व्यवस्थितम् । तदर्थान्तरनिवृत्त्या विशिष्टं शब्देनोच्यत इत्ययमर्थोऽत्रामिप्रेत इत्यत आह - न चासाधारणं वस्त्वित्यादि ।
न चासाधारणं वस्तु गम्यतेऽपोहवत्तया । कथं वा परिकल्प्येत सम्बन्धो वस्त्ववस्तुनोः ॥ ९४६ ॥ स्वलक्षणस्यावाच्यत्वात्तत्पक्षभाविदोषप्रसङ्गाश्चेति भावः । गम्यतां नामासाधारणं वस्तु, तथाऽपि तस्यान्यव्यावृत्त्या विशिष्टत्वं न सिध्यतीति दर्शयति — कथं वेत्यादि । अवस्तु अपोहः, असाधारणं तु वस्तु, न चावस्तुवस्तुनोः सम्बन्धो युक्तो वस्तुद्वयाधारत्वात्तस्य ॥ ९४६ ॥
अपि च - भवतु नाम सम्बन्धस्तथापि विशेषणत्वमपोहस्य न युक्तमिति दर्शयति — स्वरूपेत्यादि ।
स्वरूपसत्त्वमात्रेण न स्यात्किञ्चिद्विशेषणम् ।
खबुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम् ॥ ९४७ ॥
1
हि सत्तामात्रेणोत्पलादीनां नीलादि विशेषणं भवति । किं तर्हि ? ज्ञातं सद्यत्खाकारानुरक्तया बुद्ध्या विशेष्यं रञ्जयति तद्विशेषणमुच्यते ॥ ९४७ ॥ नचापोहेऽयं प्रकारः सम्भवतीति दर्शयति न चापीत्यादि ।
न चाप्यश्वादिशब्देभ्यो जायतेऽपोहबोधनम् । विशेष्यबुद्धिरिष्टेह न चाज्ञातविशेषणा ॥ ९४८ ॥ नवादाऽपोहो व्यवसीयते किं तर्हि ? मस्त्वेव । ततश्वापोहस्य बोघास