________________
३००
तत्त्वसाहः। धेयत्वं भवद्भिरवगम्यत इति । बौद्ध आह-न दृष्टो यत्रेत्यादि-सम्बन्धानुभवक्षण इति । सङ्केतप्रतिपत्तिवेलायामित्यर्थः ॥ ९४१ ॥ एकस्मादित्यादिना परो दूषणमाह ।
एकस्मान्न हि गोपिण्डाचदन्यत्सर्वमेव तत्।
भवेदपोथमित्येतन सामान्यस्य वाच्यता ॥ ९४२॥ यदि हि यदेव सङ्केतानुभववेलायामुपलब्धं ततोऽन्यत्र गोशब्दप्रवृत्तिर्नेष्यते, तदैकस्मात्सद्देतेन विषयीकृताच्छाबलेयादिकाद्गोपिण्डात्सकाशाद्यदन्यद्वाहुलेयादि तदपि गोशब्देनापोझं भवेत् । ततश्च सामान्यं वाच्यमित्येतन्न सिद्धयेत् ॥ ९४२ ।।
इतश्चेतरेतराश्रयदोषप्रसङ्गादपोहे सङ्केतोऽशक्यक्रिय इति दर्शयन्नाह-सिद्धश्चेत्यादि ।
सिद्धश्चागौरपोधेत गोनिषेधात्मकश्च सः। तत्र गौरव वक्तव्यो नत्रा यः प्रतिषिध्यते ॥ ९४३ ॥ स चेदगोनिवृत्त्यात्मा भवेदन्योन्यसंश्रयः।
सिद्धश्चगौरपोहाथ वृथाऽपोहप्रकल्पनम् ॥ ९४४ ॥ ___ अगोव्यवच्छेदेन गोप्रतिपत्तिः, सचागौ!निषेधात्मा, ततश्चागौरित्यत्रोत्तरपदार्थो वक्तव्यो यो न गौरगौरित्यत्र नया प्रतिषिध्येत । न यनितिस्वरूपस्य निषेधः शक्यते कर्तुम् । अथापि स्याकिमत्र वक्तव्यमगोनिवृत्त्यात्माऽसौ गौरित्यत आहसचेत्यादि । स इति । गौः । तथागोनिवृत्तिस्वभावत्वाद्गोरगोप्रतिपत्तिद्वारेणैव प्रतीतिः, अगोश्च गोप्रतिषेधात्मकत्वाद्गोप्रतिपत्तिद्वारिकैव प्रतीतिरिति स्फुटतरमवतरतीतरेतराश्रयत्वम् । अथापि स्यादगोशब्देन यो गौनिषेध्यते स विधिरूप एवं सिद्धोऽपोहार्थम् अगोव्यवच्छेदलक्षणापोहसिध्यर्थ, तेनेतरेतराश्रयत्वं न भविष्यतीत्यत आह-सिद्धश्चेदित्यादि । यद्येवं, सर्वस्य शब्दस्यापोहोऽर्थ इत्येवमपोहकल्पनं पृथा, विधिरूपस्य शब्दार्थस्य भावात् । तस्मान्न कश्चिद्विधिरूपः शब्दार्थः सिद्धो । नीकर्तव्यस्तदनङ्गीकरणे चेतरेतरांश्रयदोषो दुर्निवारः ॥ ९४३ ॥ ९४४ ॥ तदेवेतरेतराश्रयत्वमुपसंहरबाह-गव्यसिद्ध इत्यादि ।
गव्यसिद्धे वगौनास्ति तदभावे तु गौः कुतः। . नापाराधेयवृत्यादिसम्बन्धमान्यभावयोः ॥ ९४५ ॥ .