________________
२९९
पत्रिकासमेतः। तमेवाविशेषं दर्शयति-शाबलेयाश्चेत्यादि ।
शाबलेयाच भिन्नत्वं बाहुलेयाश्वयोः समम् ।
सामान्यं नान्यदिष्टं चेत्कागोऽपोहः प्रवर्तताम् ॥ ९३८ ॥ ." कागोऽपोहः प्रवर्त्ततामिति । यथैव शाबलेयाद्वैलक्षण्यादश्वे न प्रवर्त्तते, तथा बाहुलेयस्यापि ततो वैलक्षण्यमस्तीति तत्रापि न प्रवर्तेत । एवं शाबलेयादिष्वपि योज्यम् , सर्वत्र वैलक्षण्याविशेषात् ॥ ९३८ ॥
अपि च-यदा खलक्षणादिषु समयासम्भवान्न शब्दार्थत्वं युक्तं तथाऽपोहेऽपीति दर्शयनाह-इन्द्रियैरित्यादि।
इन्द्रियै प्यगोपोहः प्रथमं व्यवसीयते ।
नान्यत्र शब्दवृत्तिश्च किं दृष्ट्वा स प्रयुज्यताम् ॥ ९३९ ॥ स्वयं निश्चितार्थो हि समयकृत्समयं करोति, नचापोहः केनचिदिन्द्रियैर्व्यवसीयते । प्रथमम्-व्यवहारकालात्पूर्वम् , संज्ञासंज्ञिसम्बन्धकाल इत्यर्थः । तस्यावस्तुत्वादिन्द्रियाणां च वस्तुविषयत्वादिति भावः । स्यादेतदन्यव्यावृत्तस्वलक्षणमुपलभ्य २ शब्दः प्रयोक्ष्यत इत्यत आह-नान्यत्रेत्यादि । अन्यापोहादन्यत्र स्खलक्षण इत्यर्थः ॥ ९३९ ॥
माभूदिन्द्रियैरपोहस्य व्यवसायोऽनुमानेन भविष्यतीति चेदाह-पूर्वोक्तेनेत्यादि।
पूर्वोक्तेन प्रबन्धेन नानुमाऽप्यत्र विद्यते ।
सम्बन्धानुभवोऽप्यस्य तेन नैवोपपद्यते ॥ ९४० ॥ तत्र पूर्वोक्तः प्रबन्धः-"न चान्वयविनिर्मुक्ता प्रवृत्तिः शब्दलिङ्गयो"रित्यादिः। सम्बन्धानुभवोऽपीति । शब्देन सहेति शेषः । न केवलं पूर्वोक्ताश्च(श्व?) वैलक्षग्यादिर्नोपपद्यत इत्यपिशब्देन दर्शयति । तेनेति । तस्मात् । तदेवमकृतसमयत्वादित्यस्य हेतोरनैकान्तिकत्वं प्रतिपादितम् । अकृतसमयत्वेऽप्यपोहे शब्दप्रवृत्त्यभ्युपगमात् ॥ ९४० ॥ पुनरप्यपोहे सङ्केतासम्भवं प्रतिपादयन्नाह-अगोशब्दाभिधेयत्वमित्यादि ।
अगोशन्दाभिधेयत्वं(भव)तां च कथं पुनः ।
न दृष्टो यत्र गोशब्दः सम्बन्धानुभवक्षणे ॥ ९४१ ॥ इदं हि भवान्बकुमर्हति । कथमश्वादीनाम् अगोशब्दाभिधेयत्वं-नोशब्दानमि