________________
१९८
तत्वसङ्कहः ।
भाक्, तत्कथं तेनान्वयो भवेत् । तदेवमपोहकल्पनायां शब्दलिङ्गयोः प्रवृत्तिरेव न प्राम्रोति ॥ ९३४ ॥
भवतु वा प्रवृत्तिस्तथाऽप्यनयोः प्रामाण्यमभ्युपगतं हीयत इति दर्शयति-अपो. हवेत्यादि।
अपोहचाप्यनिष्पन्नः साहचर्य क कथ्यताम् ।
तस्मिन्नदृश्यमाने च न तयोः स्यात्प्रमाणता ॥ ९३५ ॥ प्रतिपाद्याव्यभिचारे सति शब्दलिङ्गयोः प्रामाण्यं स्यात् , प्रतिपाद्यश्वार्थोऽपो. हस्त्वयेष्यते, स चाभावरूपत्वादनिष्पन्नो निःखभावतः । ततश्च साहचर्यमव्यमिचा. रित्वं क कस्मिन्विषये कथ्यतां शब्दलिङ्गयोः । किं तेन कथितेनेति चेदाह-तस्मिन्नित्यादि । तस्मिन्निति । साहचर्ये । तयोरिति । शब्दलिङ्गयोः । अविसंवादलक्षणत्वात्प्रामाण्यस्येति भावः ॥ ९३५ ॥ ___ अथापि स्याद्विजातीयादर्शनमात्रेणैव शब्दलिङ्गे अगृहीतसाहचर्ये एतत्स्वमर्थ गमिप्यत इत्याह-न चादर्शनमात्रेणेत्यादि ।
न चादर्शनमात्रेण ताभ्यां प्रत्यायनं भवेत् ।
सर्वत्रैव बदृष्टत्वात्प्रत्ययो न विशिष्यते ॥९३६ ॥ मात्रग्रहणमन्वयदृष्टिव्यवच्छेदार्थम् । कस्मान्न भवेदित्याह-सर्वत्रैवेत्यादि । सर्वत्र-सजातीये विजातीये स्वार्थे च । ततश्चार्य स्वार्थोऽयं परार्थ इत्येवं प्रत्ययो झानं न विशिष्येत । स्वार्थमपि न गमयेत् , तत्राप्यदृष्टत्वात्परार्थवदिति यावत् । कचित्प्रत्याय्य इति पाठः । तत्र प्रत्याय्योऽभिधेयोऽर्थो न विशिष्यते-न मिद्यत इत्यर्थः । तदेवं शब्दलिङ्गयोः प्रवृत्तिप्रामाण्याभ्युपगमहानिप्रसङ्गानापोहः शब्दार्थों युक्तः॥ ९३६॥
यदुक्तं "न चाप्रसिद्धसारूप्यमि"त्यादि, तत्र परस्योत्तरमाशङ्कते-अथासत्यपीत्यादि।
अथासत्यपि सारूप्ये स्यादपोहस्य कल्पना ।
गवाश्वयोरयं कस्मादगोऽपोहो न कल्प्यते ॥ ९३७ ॥ यदि सारूप्यमन्तरेण शावलेयादिष्वगोपोहस्य कल्पना स्यात्तदा गवाश्वयोरपि कस्मान प्रकल्प्येत, अविशेषात् । गवाश्वप्रभृतीनि चेयस्य लक्षणस्य विस्मृतत्वाद्विप्रेण गवायोरित्युक्तम् ॥ ९३७ ॥