________________
पषिकासमेता।
२९.
रूपमवस्तु । भक्स्तुत्वादेव च कचिदसंसृष्टम् -असम्बद्धम्, अन्यतश्च विजातीयादघ्यावृचमवस्तुत्वादेव । अत एवानधिगतविशेषांशं तत्तादृशं सम्बन्धिमेदादपि कथ
मिव भेदमझुवीत ।। ९३० ॥ ९३१ ॥ ... किंच-भवतु नाम सम्बन्धिभेदाढ़ेदस्तथापि वस्तुभूतसामान्यानभ्युपगमे भवतां
स एवापोहाश्रयः सम्बन्धी न सिद्ध्यति । यस्य भेदात्तद्वेदोऽवकल्प्यत इति दर्शयति -न चाप्रसिद्धेत्यादि।
न चाप्रसिद्धसारूप्यमपोहविषयात्मना ।
शक्तः कश्चिदपि ज्ञातुं गवादीन".""तः ॥ ९३२॥ यदि हि गवादीनां वस्तुभूतं सारूप्यं प्रसिद्धं भवेत्तदाऽश्वाधपोहाश्रयत्वमेषामविशेषेण सिद्ध्येन्नान्यथा, ततश्चापोहविषयत्वमेषामिच्छताऽवश्यं सारूप्यमङ्गीकर्त्तव्यम् , तदेव सामान्यं वस्तुभूतं शब्दवाच्यं भविष्यतीत्यपोहकल्पना निरर्थ भावः । विषयशब्दोऽत्राश्रयवचनः, जलविषया मत्स्या इति यथा ॥ ९३२ ॥
यैरप्यपोह्यभेदेन भेदः कल्प्यते, तेषां सोऽपि वस्तुभूतसामान्यमन्तरेण न सिध्यतीति दर्शयति-अपोह्यानपीत्यादि।
अपोद्यानपि चाश्चादीनेकधर्मा(न्व)याहते।
न निरूपयितुं शक्तिस्तदपोहो न सिद्ध्यति ॥ ९३३ ॥ यदि पवादीनामेकः कश्चित्सर्वव्यक्तिसाधारणो धर्मोऽनुगामी स्यात्तदा ते सर्वे गवादिशब्दैरविशेषेणापोहोरन् , नान्यथा, विशेषापरिज्ञानात् । साधारणधर्माभ्युपगमे चापोहकल्पनावैयर्थ्यम् , तत्-तस्मात् , अपोहो न सिद्ध्यति ॥ ९३३ ॥
अपि चापोहः शब्दलिङ्गाभ्यामेव प्रतिपाद्यत इति भवद्भिरिष्यते । तयोश्च शब्दलिङ्गयोर्वस्तुभूतसामान्यमन्तरेण प्रवृत्तिर्न युक्ता । ततश्च केनापोहः प्रतिपाद्यतामियेतदर्शयति-न चान्वयेत्यादि।
न चान्वयविनिर्मुक्ता प्रवृत्तिः शब्दलिङ्गयो।
ताभ्यां च न विनाऽपोहो न चासाधारणेऽन्वयः ॥ ९३४ ॥ अन्वयविनिर्मुक्केति । अन्वयमन्तरेणेत्यर्थः । ताभ्यामिति । शब्दलिङ्गाभ्यां बिना नापोहः । गम्यत इति शेषः । खलक्षणेनैवान्वयं कृत्वा शब्दलिङ्गयोः प्रवृत्तिः करिष्यत इति चेदाहन चासाधारणेऽन्वय इति । स्खलक्षणमसाधारणमनन्य