________________
तत्त्वसङ्ग्रहः। ननु चाश्वादिभेदेन भेदोऽपोहस्य सेत्स्यति । यथोक्तम्-"अपोलभेदाद्भिनार्थाः स्वार्थभेदगतौ जडा" इति । ततश्च स्वतो भेदाभावेऽप्यपोह्यस्याश्वादेर्भेदादपोहस्यागवादिव्यावृत्तिरूपस्य भेदे सिद्धे न पर्यायत्वं भविष्यति । न विशेष इत्यादिना परो दूषणमाह
न विशेषः खतस्तस्य परतचोपजायते ॥ ९२८ ॥ स्वतो न तस्यापोहस्य विशेषो नानात्वमस्ति अभावैकरसत्वात् । परतोऽप्यसौ भवन्काल्पनिकः स्यान्न पारमार्थिकः । न हि स्वतोऽसतो भेदस्य परतः सम्भवो युक्तः ॥ ९२८ ॥ कस्मान्न युक्त इत्याह- संसर्गिण इत्यादि ।
संसर्गिणोऽपि ह्याधारा यं न भिन्दन्ति रूपतः।
अपोयै(बहिरङ्गैस्स भिद्यतेत्य)तिकल्पना ॥ ९२९ ॥ तथाहि-संसर्गिणः-संबन्धिनः शाबलेयादयः, आधारा-अन्तरङ्गा अपि सन्तो, यम्-अपोहं, रूपतः-खभावतो भेत्तुमशक्ताः, बहुष्वपि शाबलेयादिष्वेकस्यागोन्यवच्छेदलक्षणस्यापोहस्य प्रवृत्तेरिष्टत्वात् , स कथं बहिरङ्गभूतैरपोखैरवादिमिर्भिद्येत । न हि यस्यान्तरङ्गोऽप्यों न भेदकस्तस्य बहिरङ्गो भविष्यति । बहिरअत्वहानिप्रसङ्गात् । तस्मादतिशयवती कल्पनेयमित्युपहसति ॥ ९२९ ।।
एवं तीन्तरङ्गा एवाधाराः संसर्गिणो भेदका न भविष्यन्तीति चेदाह-तथैवेत्यादि ।
तथैवाधारभेदेनाप्यस्य भेदो न युज्यते । न हि सम्बन्धिभेदेन भेदो वस्तुन्यपीष्यते ॥ ९३०॥ किमुतावस्त्वसंसृष्टमव्यावृत्तं निवर्तते।
अति एवा)विशेषांशं य (द्धिम) त्यनिरूपितम् ॥ ९३१॥ अस्येति । अपोहस्य । कस्मान्न युज्यत इत्याह-न हीत्यादि । आस्तां तावद्यदवस्तु सम्बन्धिभेदान मिद्यत इति, तस्य निःस्वभावत्वात् । वस्तुन्यपि हि यावत्सं. बन्धिभेदाढ़ेदो नोपलभ्यत एव । तथाहि-देवदत्वादिकमेकं वस्तु युगपत्क्रमेण वाऽनेकैरासनादिमिः सम्बध्यमानमनासादितभेदमेवोपलभ्यते, किं पुनर्यदन्यव्यावृत्ति