________________
पलिकासमेतः।
२९५ यद्यप्यसौ न प्रतीयते तथाऽप्यस्त्येवेति चेदाह-स्वरूपोत्पादेत्यादि । यद्यपि बुद्धेर्बुद्ध्यन्तराट्यावृत्तिरस्ति, तथापि तस्यां न शब्दव्यापारोऽस्ति । तथाहि-शब्दादियं बुद्धिरुत्पद्यमाना न स्वरूपोत्पादव्यतिरेकेणान्यं बुद्ध्यन्तरव्यवच्छेदलक्षणं शब्दा- दवसीयमानमंशं बिभ्रती लक्ष्यते, किं तर्हि ? विधिरूपावसायिन्येवोत्पद्यत इत्यर्थः । न च शब्दादवसीयमानो वस्त्वंशः शब्दार्थों युक्तोऽतिप्रसङ्गात् । तस्मात्प्रतीतिबाधितत्वं प्रतिज्ञाया इति भावः ॥ ९२४ ॥ पुनरपि प्रसङ्गापादनेन प्रतीत्यादिबाधितत्वमेव दर्शयन्नाह-भिन्नेत्यादि ।
भिन्नसामान्यवचना विशेषवचनाश्च ये।
सर्वे भवेयुः पर्याया यद्यपोहस्य वाच्यता ॥ ९२५ ॥ ये हि मिन्नसामान्यवचना गवाश्वादयो ये च विशेषवचनाः शाबलेयादयस्ते सर्वे भवतां पर्यायाः प्राप्नुवन्त्यर्थभेदाभावात् , वृक्षपादपादिशब्दवत् ॥ ९२५ ॥ कस्मात्पुनरर्थभेदो न सम्भवतीत्याह-संसृष्टेयादि ।
संसृष्टैकत्वनानात्वविकल्प(रहितोहि सः।
अवस्तुत्वादपोहानां) नैव भेदोऽपि विद्यते ॥ ९२६ ॥ वस्तुन्येव हि संसृष्टत्वैकत्वनानात्वविकल्पाः सम्भवन्ति, नावस्तुनि, अपोहानां चावस्तुत्वान्न परस्परं संसृष्टत्वादिविकल्पो युक्तः, तत्कथमेषां परस्परं भेदः सिद्ध्यति ॥ ९२६॥
अथ भेदस्तेषामभ्युपगम्यते, तथा सति नियमेन वस्तुत्वमापद्यत इति दर्शयति -यदि वेत्यादि ।
यदि वा भिद्यमानत्वा (द्वस्तु साधारणांशवत्)।
अवस्तुत्वे (त्वनानात्वा) स्पोयत्वान्न मुच्यते ॥ ९२७॥ वस्त्विति साध्यनिर्देशः । प्रयोगः-ये परस्परं विमिद्यन्ते ते वस्तु, यथा खलअणानि, परस्परं विमिद्यन्ते चापोहा इति स्वभावहेतुः । ततश्च वस्तुत्वे सति विधिरेव शब्दार्थ इति सिद्धम् । एतेन चानुमानबाधितत्वं प्रतिज्ञाया उक्तं भवति । अथावस्तुत्वमभ्युपगम्यतेऽपोहानां तदा नानात्वाभावात्पूर्ववत्पर्यायत्वप्रसङ्ग इत्येकान्त एषः ॥ ९२७॥
अत्र परो बौद्धस्स परिहारमाशङ्कते-ननु चेत्यादि ।