________________
२९४
तत्त्वसङ्कहः।
बुद्ध्याकार एव वस्तुरूपं सामान्यं शब्दार्थो भविष्यतीति सम्बन्धः ॥ ९२१ ॥ स्थादेतदनालम्बनापि सा बुद्धिर्विजातीयगवादिबुद्धिभ्यो व्यावृत्तरूपा प्रवर्तते तेनापोहकल्पना युक्तैवेत्यत आह-वस्तुरूपेत्यादि ।
वस्तुरूपा च सा बुद्धिः शब्दार्थेषूपजायते।
तेषु वस्त्वेव (कल्प्येत वाच्यं) बुद्ध्यनपोहकम् ॥ ९२२॥ वस्तुरूपेति विधिरूपावसायिनी । सा बुद्धिरिति । अनालम्बनाऽश्वादिबुद्धिः । शब्दार्थेष्विति । अश्वादिष्वध्यवसितेषु । वस्त्वेवेति । अश्वादिपिण्डाध्यवसायिबुद्ध्यात्मकम् । अवधारणफलं दर्शयति-बुद्ध्यनपोहकमिति । अविद्यमानोऽपोहो यत्र वाच्ये बुद्ध्यात्मके वस्तुनि तत्तथोक्तम् । बुद्धेरनपोहकम्। बुद्ध्यन्तरापोहरहितमित्यर्थः। अथवाअपोहत इत्यपोहकं, नापोहकमनपोहकं, बुद्धरनपोहकं बुद्ध्यनपोहकमिति समासः । एतदुक्तं भवति । यद्यपि बुद्धिर्बुद्ध्यन्तराट्यवच्छिन्ना, तथापि सा न बुद्ध्यन्तरव्यवच्छेदावसायिनी जायते । किं तर्हि ? अश्वादिष्वर्थेषु विधिरूपावसायिनी, तेन वस्त्वेव विधिरूपं वाच्यं कल्पेत युक्तिमत् , नापोहः, बुद्ध्यन्तरस्य बुद्ध्यन्तरानपोहकत्वात् ॥ ९२२॥
किंच योऽयं भवद्भिरपोहः पदार्थत्वेन कल्पितः स वाक्यादपोद्धृत्य कल्पितस्य पदस्यार्थ इष्टो वाक्यार्थस्तु प्रतिभालक्षण एव । यथोक्तम्-"अपोद्धारे पदस्यायं वाक्यादर्थो विवेचितः । वाक्यार्थः प्रतिभाख्योऽयं तेनादावुपजन्यते ॥” इति । अत्रोच्यते-असत्यपीत्यादि ।
(असत्यपि च वाक्यार्थः प्रतिभालक्षणो) यथा।
पदार्थोऽपि तथैव स्याकिमपोहः प्रकल्प्यते ॥ ९२३ ॥ यथा बाह्येऽर्थे शब्दवाच्यत्वेनासत्यपि वाक्यार्थो भवद्भिः प्रतिभालक्षण एव वर्ण्यते नापोहलक्षणस्तथा पदार्थोऽपि वाक्यार्थवत्प्रतिभालक्षण एव स्यादित्यपोहः पदार्थतया किमिति कल्प्यते । द्वयोरपि पदवाक्यार्थयोर्विधिरूपत्वमेवास्त्विति भावः ॥ ९२३ ॥
स्यादेतत्प्रतिभायाः प्रतिभान्तराद्विजातीयाद्यवच्छेदोऽस्तीत्यतोऽपोहः कल्प्यत इत्याह-बुध्यन्तरादित्यादि।
बुद्ध्यन्तरा(न्यवच्छेदोन च बुद्धौ) प्रतीयते। खरूपोत्पादमात्राय (विधिरूपावसायिनी) ॥९२४ ॥