________________
पञ्जिकासमेतः ।
२९३
।
असाधारणस्त्वर्थः सर्वविकल्पानामगोचरः । यथोक्तम् — “स्वसंवेद्यमनिर्देश्यं रूपमि - न्द्रियगोचर ” इति । विशेषात्मकत्वे कारणमसाधारणात्मकता, असाधारणात्मतया यो विशेष इत्यर्थः । एवमविशेषेणोक्तम् । साम्प्रतं विशेषेणैनमेवार्थमाह – तथाचेत्यादि । यथैव भवतामसाधारणो विशेषोऽश्वादिनिवृत्त्यात्मा गोशब्दाभिधेयो नेष्टस्तथैव शाबलेयादिशब्दवाच्यतया नेष्टोऽश्वादिनिवृत्त्यात्मा भाव इत्यत्राप्यनुवर्त्तते । कस्मादित्याह — असामान्यप्रसङ्गत इति । यदीष्येत तदा सामान्यं शब्दवाच्यं न स्यात्, तस्यानन्वयात् । यत एवमश्वादिनिवृत्यात्मा भावोऽसाधारणो न घटते, तस्मात्सर्वेषु सजातीयेषु शाबलेयादिपिण्डेषु यत्प्रत्येकं परिसमाप्तं तन्निबन्धना गोबुद्धिः । तच्च गोत्वाख्यमेव सामान्यम् । तस्यागोऽपोहशब्देनाभिधानात्केवलं नामान्तरमित्यतः सिद्धसाध्यता प्रतिज्ञादोषः ।। ९१७ ।। ९१८ ॥
-
अथ प्रसज्यलक्षणमिति पक्षस्तत्राह — निषेधमात्ररूपश्चेत्यादि । निषेधमात्ररूपश्च शब्दार्थों यदि कल्प्यते ।
1
1
अभावशब्द (वाच्या स्याच्छून्यताऽन्यप्रकारिका ) ॥ ९९९ ॥ अभावशब्दवाच्येति । अगोऽपोहलक्षणोs ( णा ?) भाववाचकः शब्दोऽभावशब्दस्तद्वाच्या बहिरर्थशून्यता स्यात्, वस्तुरूपापह्नवात् । अन्यप्रकारिकेति । पूर्व विज्ञानमात्रवादोपन्यासकाले भवद्भिरुपन्यस्ता, निरस्ता चास्माभिः पुनरप्यत्र शब्दार्थचिन्ताप्रस्तावे सैवापोहव्याजेनाभिहिता, प्रतीतिसिद्धस्यार्थस्यापवादात् ॥ ९९९ ॥ ततश्च को दोष इत्याह--तस्यां चेत्यादि ।
तस्यां चाश्वादिबुद्धीनामात्मांशग्रहणं भवेत् । तत्रान्यापोहवाच्यत्वं मुधैवाभ्युपगम्यते ॥ ९२० ॥
तस्याम् — शून्यतायां वाच्यायां शाब्दीनामश्वा दिबुद्धीनामात्मांशग्रहणं प्राप्नोति, बाह्यवस्तुस्वरूपाग्रहात् । एवं च सति को दोष इत्याह — तत्रेत्यादि । तत्रैवं स्थिते सति, अपोहस्य वाच्यत्वं मुधैवाभ्युपगतं स्यात् । बुद्ध्याकारस्यानपेक्षितबाह्यार्थावल। म्बनस्य विधिरूपस्यैव शब्दार्थत्वापत्तेः । ततश्चाभ्युपगमबाधा प्रतिज्ञाया इति भावः
॥ ९२० ॥
एतदेव दर्शयति-- सामान्यमित्यादि ।
,
सामान्यं (वस्तुरूपं हि बुद्ध्या) कारो भविष्यति । 'प्रकल्पितः ॥ ९२९ ॥
शब्दार्थ"
***