________________
२९२
तत्त्वसङ्कहः। अगोनिवृत्तिरित्यादिना कुमारिलमतेन प्रतिज्ञादोषमुद्भावयति ।
अगोनिवृत्तिः सामान्यं वाच्यं यै (रुररीकृतम् ।)
(वाच्यं) वस्त्वेव तैरुक्त(मेतया हि गिरा स्फुटम्) ॥ ९१५ ॥ स ह्येवमाह-अपोहलक्षणं सामान्यं वाच्यत्वेनाभिधीयमानं कदाचित्पर्युदासल-' क्षणं वाऽभिधीयते प्रसज्यलक्षणं वा । तत्र प्रथमे पक्षे सिद्धसाध्यता प्रतिज्ञादोषःतथाह्यस्मामिर्गोत्वाख्यं सामान्यं गोशब्देन वाच्यमित्येवमिष्यते, भवता चागोनिवृत्तिलक्षणं सामान्यं गोशब्देनोच्यत इति ब्रुवता तदेव शब्दान्तरेणाभिधीयत इति केवलं नाग्नि विवादः ॥ ९१५ ॥ अथ कथं तदेव शब्दान्तरेणामिहितमित्याह-भावान्तरात्मक इत्यादि ।
भावान्तरात्मकोऽभावो येन सर्वो व्यवस्थितः।
तत्राश्वादिनिवृत्तात्माऽभावःस(क)इति कथ्यताम्॥९१६॥ येन यस्मात्प्रागभावादिलक्षणश्चतुर्विधः सर्व एवाभावो भावान्तरात्मको व्यवस्थितः। यथोक्तम्-"क्षीरे दध्यादि यन्नास्ति प्रागभावः स कथ्यते । नास्तिता पयसो दनि प्रध्वंसामावलक्षणम् ॥ गवि ह्यश्वाद्यभावश्च सोऽन्योन्याभाव उच्यते । शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः ॥ शशशृङ्गादिरूपेण (रूपाणां ? ) सोऽत्यन्ताभाव उच्यते । न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता ॥” इति । एतेन क्षीरादय एव च दध्यादिरूपेणाविद्यमानाः प्रागभावादिव्यपदेशभाज इति दर्शितं भवति । तत्रैवमभावस्य भावान्तरात्मकत्वे स्थिते सति कोऽयं भवद्भिरश्वादिनिवृत्तिखभावोऽभावोऽभिप्रेत इति कथ्यताम् ॥ ९१६ ॥
स्यान्मतम्-किंमत्र कथ्यते, गवादिस्खलक्षणात्मैवासावित्यत आह नेष्ट इत्यादि।
(नेष्टोऽसाधारणात्मा वो) विशेषो निर्विकल्पनात् । तथा च शाबलेयादिरसामान्यप्रसङ्गतः ॥ ९१७ ॥ तस्मात्सर्वेषु यद्रूपं प्रत्येकं परिनिष्ठितम् ।
गोबुद्धिस्तन्निमित्ता स्था...."स्ति तत् ॥ ९१८ ॥ योऽसावसाधारणो विशेषः सोऽश्वादिनिवृत्त्यात्मा नेष्टो भवतां । कस्मादित्याहनिर्विकल्पनात् । तत्र सर्वविकल्पप्रत्यस्तमयात् । विकल्पज्ञानगोचरः सामान्यमेवेष्यते,