________________
पलिकासमेतः। अन्यापोहकृच्छन्द इत्यत्रेतिशब्दोऽध्याहार्यः । अन्यापोहकृच्छब्द इत्येवं कथमभिधीयत इत्यर्थः । कस्मानाभिधेयमित्याह-निषेधमात्रमित्यादि । निषेधमात्रमेव किलान्यापोहोऽमिप्रेतः, नचेह शाब्दे प्रतिभासे निषेधमानं गम्यते । किं तर्हि वस्तुरूपाध्यवसायेनैव शाब्दी धीः प्रवर्त्तमाना समालक्ष्यते । नच शाब्दे ज्ञाने यो न प्रत्यवभासते स शब्दार्थो युक्तोऽतिप्रसङ्गात् । तस्मात्प्रतीतिविरोधः प्रतिज्ञायाः ॥ ९१० ॥ ९११ ॥ यदि गौरित्यादिना श्लोकत्रयेण भामहस्य मतेन प्रतीत्यादिबाधामुद्भावयति ।
यदि गौ(रितिशब्दोऽयं भवेद ) न्यनिराकृतौ ।
जनको गवि गोवुद्धेदृश्यतामपरो ध्वनिः ॥ ९१२॥ यदि गोशब्दोऽन्यव्यवच्छेदप्रतिपादनपरस्तदा तस्य तत्रैव चरितार्थत्वात्सानादिमति पदार्थे गोशब्दात्प्रतीतिर्न प्राप्नोति, ततश्च सानादिमत्पदार्थविषयाया गोबुद्धे. जनकोऽपरो ध्वनिरन्वेषणीयः स्यात् ।। ९१२ ॥
स्यादेतदेकेनैव गोशब्देन बुद्धिद्वयस्य जन्यमानत्वान्नापरो ध्वनिर्मग्यत इत्याहन वित्यादि ।
न तु ज्ञानफलाः (शब्दा न चैकस्य फलट्टयम् ।
अपवादविधि(ज्ञानं फलमेकस्य वा कथम्)॥९१३ ॥ विधिविषयं प्रतिषेधविषयं च ज्ञानं फलं येषां ते तथोक्ताः । ततः किमित्याहन चैकस्येत्यादि । न ह्येकस्य विधिकारिणः प्रतिषेधकारिणो वा शब्दस्य युगपद्विज्ञानद्वयलक्षणं फलम् । उपलभ्यत इति शेषः । नचापि परस्परविरुद्धमपवादविधिज्ञानं फलं युक्तम् ॥ ९१३ ॥ प्रागित्यादिनोपचयहेतुमाह।
प्रागगौरिति विज्ञानं गोशब्दश्राविणो भवेत् ।
येनागोः प्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः ॥ ९१४ ॥ यदि च गोशब्देनागोनिवृत्तिर्मुख्यतः प्रतिपाद्यते तदा गोशब्दश्रवणानन्तरं प्रथमतरमगौरित्येषा श्रोतुः प्रतिपत्तिर्भवेत् । यत्रैव हव्यवधानेन शब्दात्प्रत्यय उपजायते स एवं शब्दार्थो व्यवस्थाप्यते । नचाव्यवधानेनागोव्यवच्छेदे मतिरुपजायते । अतो गोबुद्ध्यनुत्पत्तिप्रसङ्गात्प्रथमतरमगोप्रतीतिप्रसङ्गाच नापोहः शब्दार्थ इति ॥ ९१४ ॥