________________
२९.
तत्त्वसकहः। ___ एवं सति सर्वदा बाझे प्रवृत्तिन प्राप्नोति, कदाचिद्विवक्षापरिवर्तिन्यपि चोदिते प्रवृत्तिर्भवेत् । यथा यमलकयोरिव । योऽपि वैभाषिकः शब्दविषयं नामाख्यं निमिचाख्यं चार्थचिह्नरूपं विप्रयुक्तं संस्कारमिच्छति, तदप्येतेनैव दूषितं द्रष्टव्यम् । तथाहि-तनामादि यदि क्षणिकं तदाऽन्वयायोगः, अक्षणिकत्वे क्रमिज्ञानानुपपत्तिः, बाझे च प्रवृत्त्यभावप्रसङ्गः, सारूप्या(च) न सर्वदेति सर्व यथोक्तं दूषणमखण्डमेवावतरति । अथवा-एतेनेति । यथासम्भवं स्खलक्षणादिदूषणेन । तथा त्राप्येवं वक्तव्यम्-'अशक्यसमयो ह्यात्मा नामादीनामनन्यभाक् । तथा मतो न वाच्यत्वं कथंचिदुपपद्यते ॥” इति ॥ ९०८॥
यदुक्तं विवक्षासमारूढार्थद्योतकत्वे शब्दानां बाह्ये प्रवृत्तिन प्राप्नोति । अत्र परसोत्तरमाशङ्कयन्नाह-विवक्षेत्यादि ।
विवक्षानु(मितिश्लिष्टमाकारं वाघभावतः। __ व्यवस्यतोः प्रवृत्ति )श्वेत्तदेवामन्मतं पुनः ॥९०९॥ विवक्षा च वत्कृसन्तानवर्तिनी, तस्या एव विवक्षाया अनुमितिश्च श्रोतसन्तानगतेति विवक्षानुमिती ताभ्यां श्लिष्टः-सम्बद्धः, तत्प्रतिभासीत्यर्थः । तमाकारं बाह्यतया व्यवस्यतोर्वक्तृश्रोत्रोरत्र बाह्ये प्रवृत्तिर्भविष्यति । एतदुक्तं भवति-परमार्थतः खप्रतिभासानुभवेऽपि वक्तुरेवमध्यवसायो भवति, मयाऽस्मै बाह्य एवार्थः प्रतिपायते । श्रोतुरप्येवं भवति, ममायं बाह्यमेव प्रतिपादयतीति । अतस्तैमिरिकद्वयद्विचन्द्रदर्शनवदयं सर्वः शाब्दो व्यवहार इति । यद्येवमस्मत्पक्ष एव पतितोऽसीति सिद्धसाध्यता । पूर्व प्रतिभाद्वारेणागतत्वादित्यतः पुनरित्याह । तदेवमकृतसमयत्वादित्यस्य हेतो सिद्धतेति प्रतिपादितम् । अनैकान्तिकत्वविरुद्धत्वे तु पूर्वमेव निरस्ते । तस्मात्सिद्धा यथोक्तापोहकृतः शब्दा इति ॥ ९०९॥ ___ अत्र परोऽपोहशब्दश्रवणाच्छलितमतिरविदितविवक्षितापोहस्वरूपः प्रतिज्ञायाः प्रतीत्यादिविरोधमुत्पादयन्नाह-नन्वन्यापोहकृच्छन्दो युष्माभिः कथमुच्यत इति ।
नन्वन्यापोहकृच्छब्दो युष्माभिः कथमुच्यते । निषेधमानं नैवेह प्रतिभासेऽवगम्यते ॥९१०॥ किंतु गौर्गवयो हस्ती वृक्षवे(त्यादिशब्दतः। विधिरूपावसायेन मतिः शाब्दी प्रवर्तते ॥ ९११ ॥