________________
२८९
पखिकासमेतः। यदि प्रतिभा परमार्थतो बाह्यार्थविषया तदैकत्र वस्तुनि शब्दादौ विरुद्धसमयावस्थायिनां विचित्राः प्रतिभा न प्राप्नुवन्ति, एकस्यानेकस्वभावसम्भवात् । अथ निर्विषयास्तदाऽर्थे प्रवृत्तिप्रतिपत्ती न प्राप्नुतः, अतद्विषयत्वाच्छब्दस्य । अथ स्वप्रतिमासे'ऽनर्थेऽर्थाध्यवसायेन भ्रान्त्या ते प्रवृत्तिप्रतिपत्ती भवतस्तदा भ्रान्तः शब्दार्थः प्राप्नोति । तस्याश्च भ्रान्तेर्बीजं कारणं वक्तव्यम् , अन्यथा निर्बीजा भ्रान्तिभवन्ती सर्वतः सर्वदैव स्यात् । अथ भावानां परस्परतो भेद एव बीजमस्या अभ्युपगम्यते, तदाऽस्मत्पक्षमेव भवान् साधयतीति सिद्धसाध्यता ॥ ९०२ ॥ ९०३ ॥ ९०४ ॥ ॥९०५ ॥ साम्प्रतं सर्वेष्वेव पक्षेषु समानं दूषणमाह-यदि वेत्यादि । __ यदि वा सर्वमेवेदं क्षणिकं स्यान्न वा तथा ।
क्षणिकत्वेऽन्वयायोगः क्रमिज्ञानं च नान्यथा ॥९०६ ॥ सर्वमेतत्खलक्षणजात्यादि क्षणिकं वा स्यादक्षणिकं वा? तत्राये पक्षे सङ्केतकालदृष्टस्य व्यवहारकालेऽन्वयासम्भवान्न तत्र समयः । अक्षणिकपक्षे च नाक्रमात् क्रमिणो भाव इति शब्दार्थविषयस्य क्रमिज्ञानस्याभावप्रसङ्गः। अन्यथेति । अक्षणिकत्वे ॥ ९०६ ॥
अन्ये त्वाहुः अर्थविवक्षां शब्दोऽनुमापयतीति । यथोक्तम्-"अनुमानं विवक्षायाः शब्दादन्यन्न विद्यत” इति । अत्राह-एतेनैवेत्यादि ।
एतेनैव विवक्षाऽपि शब्दगम्या निराकृता।
शब्दार्थासम्भवे हीत्थं क विवक्षा क वा श्रुतिः ॥९०७ ॥ यदि पारमार्थतो विवक्षा पारमार्थिकशब्दार्थविषयेष्यते, तदसिद्धम् , खलक्षणादेः शब्दार्थस्य कस्यचिदसम्भवात् । अतो न कचिदर्थे परमार्थतो विवक्षाऽस्ति, अन्वयिनोऽर्थस्याभावात् । नापि तत्प्रतिपादकः शब्दोऽस्ति, तदाह-कवा श्रुतिरिति । श्रुतिः-शब्दः । विवक्षायां च प्रतिपाद्यायां श्रुतेः शब्दावहिरर्थे प्रवृत्तिन प्राप्नोति । तस्याचोदितत्वादर्थान्तरवत् ।। ९०७ ॥
अथ मतं यो विवक्षाविपरिवर्ती रूपादिरों यश्च बाह्यस्तयोः सारूप्यमस्त्यतः सारूप्यादचोदिते बाह्ये प्रवृत्तिर्भविष्यति यमलकवदित्यत आह-सारूप्यादिति ।
(सारूप्याच) श्रुतेवृत्तिः कथं वा (ऽशब्द)चोदिते। सारूप्या (चमलकब) मामाघेतेन दूषितम् ॥९०८ ॥
३७