________________
૨૮૮
तत्त्वसङ्ग्रहः।
जल्पो बुद्धिस्थ एवायं वाद्ययोगविभेदतः। ततः को भेद एतस्य त्रुटिपक्षादनन्तरात् ॥९००॥ बुद्ध्याकारोऽपि शब्दार्थः प्रागेव विनिवारितः।
ज्ञानादव्यतिरिक्तस्य व्यापकत्ववियोगतः ॥९०१॥ . पूर्व षट्पदार्थपरीक्षायां संयोगसमवायलक्षणस्य वारितत्वात् , सामान्यस्य च त्रिगुणात्मकस्य सत्यस्याव्यतिरिक्तस्य साङ्ख्यपरीक्षायां, व्यतिरिक्तस्यापि षट्पदार्थपरीक्षायां निरस्तत्वान्नासत्यसंयोगो नाप्यसत्योपाधिसामान्यं वाच्यम् । अमिजल्पपक्षेऽप्याह-यदि शब्दस्य कश्चिदर्थः सम्भवेत् , तदा तेन सहकीकरणं भवेत् , यावता स्खलक्षणादिरूपस्य शब्दार्थस्यासम्भवः पूर्व प्रतिपादितस्तत्कथं तेनैकीकरणं भवेत् । अपिचायममिजल्पो बुद्धिस्थ एव-तथाहि बाह्ययोः शब्दार्थयोर्भिन्नेन्द्रियप्राह्यत्वादिभ्यो भेदस्य सिद्धेस्तयोरैक्यापादनमयुक्तमेव भाविकम् । अतो बुद्धिस्थयोरेव शब्दार्थयोरेकबुद्धिगतत्वादेकीकरणं युक्तम् । तथायुपगृहीतामिधेयाकारस्तिरोभूतशब्दखभावो बुद्धौ विपरिवर्त्तमानः शब्दात्मा स्वरूपानुगतमर्थविभागेनान्तःसनिवेशयन्नमिजल्प उच्यते । स च बुद्धरात्मगत एवाकारो युक्तो न बाह्यस्तस्यैकान्तेन परस्परं , विविक्तस्वभावत्वात् । ततश्च बुद्धिशब्दार्थपक्षादनन्तरोक्तादस्य को भेदः ?-नैव कश्चित् । उभयत्रापि बौद्ध एवार्थः। एतावन्मानं तु मिद्यते, शब्दार्थावेकीकृताविति । दोषस्तु समान एव "ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं ब्रजे"दिति । तदेव दर्शयति -बुद्ध्याकारोऽपीत्यादि । ८९८ ॥ ८९९ ॥ ९०० ॥ ९०१॥ प्रतिभापक्षे दोषमाह
प्रतिभाऽपि च शब्दार्थो बाह्यार्थविषया यदि । एकात्मनियते वाद्ये विचित्राः प्रतिभाः कथम् ॥९०२ ॥ अथ निर्विषया एता वासनामात्रभावतः। प्रतिपत्तिः प्रवृत्तिवा बाह्यार्थेषु कथं भवेत् ॥ ९०३ ॥ बाह्यरूपाधिमोक्षेण खाकारे यदि ते मते। शब्दार्थोऽतात्त्विक प्राप्तस्तथा भ्रान्त्या प्रवर्तनात् ॥९०४॥ निर्बीजा न च सा युक्ता सर्वत्रैव प्रसङ्गतः। इतरेतरभेदोऽस्य बीजं चेत्पक्ष एष नः ॥ ९०५॥