________________
२८७
पत्रिकासमेतः। गोत्वेत्यादिना परस्योत्तरमाशङ्कते।
गोखशब्दविशिष्टार्थसत्तामात्रगर्भवेत् ।
विषाणाकृतिनीलादिभेदाख्यातेस्तु तन्मतम् ॥ ८९५ ॥ • स्यादेतत्-गोत्वशब्दाभ्यां विशिष्टस्वार्थसत्तामात्रस्य सावलेयत्वाविभेदरहितस्य गोशब्दाद्गते:-प्रतीतेः कारणात् । भेदेन व्यवहारो भविष्यतीति । यद्येवं कयं तर्हि शब्दार्थत्वमस्त्यर्थमात्रस्य मतं यावता गवादिविशेषः प्रतिपाद्योऽस्येवेत्याशय परः परिहारमाह-विषाणाकृतीत्यादि । विषाणादेविशेषस्य शब्दादख्यातेरप्रतीतेः कारणात्तदुक्तम्-अस्ति कश्चिदर्थः प्रत्याय्य इति, न तु गोत्वादिगोत्वादिशब्दयोर्विशेषणभूतयोरप्रतीरित्यदोषः ॥ ८९५ ॥ नन्वेवमित्यादिना प्रतिविधत्ते।
नन्वेवं तद्वतोऽर्थस्य भेदानां चाभिधा भवेत् ।
तद्भावे तत्र दोषश्च नान्योऽस्त्यर्थश्च दृश्यते ॥ ८९६ ॥ __ यदा गोत्वादिना विशिष्टमर्थमात्रमुच्यते इति मतं, तदा तद्वतोऽर्थस्यामिधानमङ्गीकृतं स्यात् । तत्र च जातेस्तत्समवायस्य च निषेधात्तद्वतोऽर्थस्यासम्भव इति पूर्वोक्तो दोषः। किंच-तद्वतोऽर्थस्य स्खलक्षणात्मकत्वादशक्यसमयत्वमव्यवहार्यत्वमस्पष्टावभासप्रसङ्गश्च पूर्ववदापद्यते एव । स्खलक्षणादिव्यतिरेकेणान्य एवास्त्यर्थ इति चेदाह-नान्योऽस्त्यर्थश्च दृश्यत इति । स्खलक्षणादिव्यतिरेकेणान्योऽस्त्यर्थो निरूप्यमाणो न बुद्धेर्गोचरतामवतरति ॥ ८९६ ॥ समुदायाभिधानपक्षे दोषमाह-समुदायाभिधानेऽपीत्यादि ।
समुदायाभिधानेऽपि जातिभेदाभिधा स्फुटा।
तपोजातिक्रियादीनां सामस्त्येनाभिधानतः ॥ ८९७ ॥ समुदायाभिधानपक्षे स्फुटतरमेव जातेर्भेदानां च तपःप्रभृतीनामभिधानमङ्गीकृतमिति प्रत्येकामिधानपक्षभाविनो दोषाः समुदायामिधाने सर्वे युगपत्प्राप्नुवन्ति ॥८९७॥ । असत्यो वाऽपीत्यादिपक्षद्वये दोषमाह-निर्धारितेत्यादि ।
निर्धारितखरूपाणां द्रव्यादीनां तु योगतः। सम्बन्धो यच सामान्यं सत्यं तद्वारितं पुरा ॥ ८९८ ॥ भेदजात्यादिरूपेण शब्दार्थानुपपत्तितः। अर्थेनैकीकृतं रूपं न शब्दस्योपपद्यते ॥ ८९९ ॥