________________
२८६
तत्त्वसङ्ग्रहः। प्यते । तथाहि-य एव शाब्दे प्रत्यये व्यवसीयमानतया प्रतिभासते स शब्दार्थः । नच बुख्याकारः शाब्दप्रत्ययेन व्यवसीयते, किं तर्हि ? बाह्यमेवार्थक्रियाकारि वस्तु । नचापि तेन बाह्य परमार्थतो व्यवसीयते, यथातत्त्वमनध्यवसायातू , यथाव्यवसायमतत्त्वात् । अतः समारोपित एव शब्दार्थः । यच्च समारोपितं तन किंचिदिति न* : किंचिद्भावतोऽभिधीयते शब्दैः । यत्पुनरुक्तम्-"शब्दार्थोऽर्थः स एवे"ति तत्समारोपितमेवार्थममिसन्धाय । बुद्ध्याकारवादिना तु बुद्ध्याकारः परमार्थतो वाच्य इष्यत इति महान्विशेषः ॥ ८९१ ॥ ___ अन्ये त्वाहुरभ्यासात्प्रतिभाहेतुः शब्दो न तु बाह्यार्थप्रत्यायक इति (तदेतत् ) दर्शयति-अभ्यासादित्यादि।
अभ्यासात्प्रतिभाहेतुः सर्वः शब्दः समासतः।
बालानां च तिरवां च यथाऽर्थप्रतिपादने ॥ ८९२॥ शब्दस्य कचिद्विषये पुनः पुनः प्रवृत्तिदर्शनमभ्यासः। नियतसाधनावच्छिन्नक्रियाप्रतिपत्त्यनुकूला प्रज्ञा प्रतिभा । सा प्रयोगदर्शनावृत्तिसहितेन शब्देन जन्यते । । प्रतिवाक्यं प्रतिपुरुषं च सा मिद्यते । स तु तस्या अपरिमाणो भेदः शब्दव्यवहारसानन्त्यान शक्यते विधातुमित्यत आह-बालानां च तिरश्चां चेत्यादि । यथैव बङ्कुशामिघातादयो हस्यादीनामर्थप्रतिपत्तौ क्रियमाणायां प्रतिभाहेतवो भवन्ति । तथा सर्वेऽर्थवत्सम्मता वृक्षादयः शब्दा यथाभ्यासं प्रतिभामात्रोपसंहारहेतवो भवन्ति, न त्वर्थ साक्षात्प्रतिपादयन्ति । अन्यथा हि कथं परस्परपराहताः प्रवचनभेदा उत्पाद्यकथाप्रबन्धाश्च स्वविकल्पोपरचितपदार्थभेदद्योतकाः स्युरिति ॥ ८९२ ॥ तत्रेत्यादिना प्रतिविधत्ते।
तत्रास्त्यर्थोऽभिधेयोऽयं किं खलक्षणमिष्यते । जातिर्योगोऽथ यद्वाऽन्य(त्) बुद्धेर्वा प्रतिबिम्बकम् ।।८९३॥ एते खदोषाः पूर्वोक्ता अस्त्यर्थे केवलेऽपि च।
प्रतिपाये न भेदेन व्यवहारोऽवकल्पते ॥ ८९४ ॥ यद्यत्यर्थः पूर्वोदितस्वलक्षणादिस्वभाव इष्यते । तदा पूर्वोदितदोषप्रसङ्गः । किंचानिर्धारितरूपविशेषत्वादस्त्यर्थस्य तस्मिन्केवले शब्दैः प्रतिपद्यमाने गौर्गवयो गज इत्याविभेदेन व्यवहारो न स्यात् , तख शब्दैरप्रतिपादितत्वात् ॥ ८९३ ॥ ८९४ ।।