________________
२८५
पत्रिकासमेतः। सोऽयमित्यभिसम्बन्धाद्रूपमेकीकृतं यदा।
शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥ ८९० ॥ शब्द एवार्थ इत्येवं शब्देऽर्थस्य निवेशनं सोऽयमित्यभिसम्बन्धः, तस्मात्कारणायदा शब्दस्यार्थेन सहकीकृतं रूपं भवति तं स्वीकृताकारं शब्दममिजल्प्यमित्याहुः ॥ ८९०॥
अन्ये तु बुद्ध्यारूढमेवाकारं बाह्यवस्तुविषयं बाह्यवस्तुतया गृहीतं बुद्धिरूपत्वेनाविर्भावितं शब्दार्थमाहुः–तदर्शयति—यो वेत्यादि ।
यो वाऽर्थों वुद्धिविषयो बाह्यवस्तुनिबन्धनः ।
स बायं वस्त्विति ज्ञातः शब्दार्थः कैश्चिदिष्यते ॥ ८९१ ॥ बुद्धिविषय इति । बुद्धौ विपरिवर्त्तमानः, बुद्धिस्थ इति यावत् । बाह्यवस्तुनि. बन्धन इति । सदसद्वाह्यं वस्तु निबन्धनमक्षरचिह्नस्थानीयं स्वरूपमुपदर्शयितुं प्रकम्यते यस्य, स बाह्यवस्तुनिबन्धमः । बाह्यं वस्त्वितिज्ञात इति । बुद्धिरूपत्वेनाविर्भावितो बाह्यतयाध्यवसित इत्यर्थः । तथाहि-यावद्बुद्धिरूपमर्थेष्वप्रत्यस्तं बुद्धिरूपमेवेति तत्त्वभावनया गृह्यते, तावत्तस्य शब्दार्थत्वं नावसीयते, तत्र क्रियाविशेषसम्बन्धाभावात् । न हि गामानय दधि खादेत्यादिकाः क्रियास्तादृशि बुद्धिरूपे सम्भवन्ति, क्रियायोगसम्भवी चार्थः शब्दैरभिधीयते । अतो बुद्धिरूपतया गृहीतोऽसौ न शब्दार्थः । यदा तु बाह्यवस्तुनि प्रत्यस्तो भवति तदा तस्मिन् प्रतिपत्ता बाह्यतया विपर्यस्तः क्रियासाधनसामर्थ्य तस्य मन्यत इति भवति शब्दार्थः । ननु चापोहवादिपक्षादस्य को विशेषः ? तथाहि-अपोहवादिनाऽपि बुद्ध्याकारो बाह्यरूपतया गृहीतः शब्दार्थ इति भाष्यत एव । यथोक्तम्-"तद्रूपारोपगत्यान्यव्यावृत्त्यधिगतेः पुनः । शब्दार्थोऽर्थः स एवेति वचने न विरुध्यते ॥” इति । नैतदस्ति-अयं हि बुद्ध्याकारवादी बाह्ये वस्तुन्यभ्रान्तं सविषयं द्रव्यादिषु पारमार्थिकेष्वध्यस्तं बुद्ध्याकारं परमार्थतः शब्दार्थमिच्छति । ननु निरालम्बनं मिनेष्वभेदाध्यवसायेन प्रवृत्ते
न्तिमितरेतरभेदनिबन्धनमिच्छति । यदि तु यथाऽस्माभिरुच्यते-"सर्वो मिथ्यावभासोऽयमर्थेष्वेकात्मना प्रहः । इतरेतरभेदोऽस्य बीजं संज्ञा यर्थिका ॥” इति । तदा सिद्धसाध्यता । तथा च वक्ष्यति-"इतरेतरभेदोऽस्य बीजं चेत्पक्ष एष नः" इति । न चापोहवादिना परमार्थतः किंचिद्वाच्यं बुद्ध्याकारोऽन्यो वा शब्दानामि