________________
२८६
तत्त्वसङ्ग्रहः ।
ध्यते । तथाहि —य एव शाब्दे प्रत्यये व्यवसीयमानतया प्रतिभासते स शब्दार्थः । नच बुद्ध्याकारः शाब्दप्रत्ययेन व्यवसीयते, किं तर्हि ? बाह्यमेवार्थक्रियाकारि वस्तु । नचापि तेन बाह्यं परमार्थतो व्यवसीयते, यथातत्त्वमनध्यवसायात्, यथाव्यवसायमतत्वात् । अतः समारोपित एव शब्दार्थः । यच्च समारोपितं तन किंचिदिति न किंचिद्भावतोऽभिधीयते शब्दः । यत्पुनरुक्तम् — “शब्दार्थोऽर्थः स एवेति तत्समारोपितमेवार्थमभिसन्धाय । बुद्ध्याकारवादिना तु बुद्ध्याकारः परमार्थतो वाच्य इष्यत इति महान्विशेषः ।। ८९१ ।।
अन्ये त्वाहुरभ्यासात्प्रतिभाहेतुः शब्दो न तु बाह्यार्थप्रत्यायक इति ( तदेतत् ) दर्शयति —— अभ्यासादित्यादि ।
अभ्यासात्प्रतिभाहेतुः सर्वः शब्दः समासतः ।
बालानां च तिरश्चां च यथाऽर्थप्रतिपादने ॥ ८९२ ॥
शब्दस्य कचिद्विषये पुनः पुनः प्रवृत्तिदर्शनमभ्यासः । नियतसाधनावच्छिन्नक्रियाप्रतिपत्त्यनुकूला प्रज्ञा प्रतिभा । सा प्रयोगदर्शनावृत्तिसहितेन शब्देन जन्यते । प्रतिवाक्यं प्रतिपुरुषं च सा भिद्यते । स तु तस्या अपरिमाणो भेदः शब्दव्यवहारस्यानन्त्यान्न शक्यते विधातुमित्यत आह- बालानां च तिरश्चां चेत्यादि । यथैव ह्यङ्कशाभिघातादयो हस्त्यादीनामर्थप्रतिपत्तौ क्रियमाणायां प्रतिभाहेतवो भवन्ति । तथा सर्वेऽर्थवत्सम्मता वृक्षादयः शब्दा यथाभ्यासं प्रतिभामात्रोपसंहारहेतवो भव - न्ति, न त्वर्थ साक्षात्प्रतिपादयन्ति । अन्यथा हि कथं परस्परपराहताः प्रवचनभेदा उत्पाद्यकथाप्रबन्धाश्च स्वविकल्पोपरचितपदार्थभेदद्योतकाः स्युरिति ॥ ८९२ ॥
तत्रेत्यादिना प्रतिविधत्ते ।
तत्रास्त्यर्थोऽभिषेयोऽयं किं खलक्षणमिष्यते ।
जातिर्योगोऽथ यद्वाऽन्य (त्) बुद्धेर्वा प्रतिबिम्बकम् ॥ ८९३ || एते खदोषाः पूर्वोक्ता अस्त्यर्थे केवलेऽपि च । प्रतिपाद्ये न भेदेन व्यवहारोऽवकल्पते ।। ८९४ ॥
यद्यस्त्यर्थः पूर्वोदितस्वलक्षणादिस्वभाव इष्यते । तदा पूर्वोदितदोषप्रसङ्गः । किंचानिर्धारितरूपविशेषत्वादस्त्यर्थस्य तस्मिन्केवले शब्दैः प्रतिपद्यमाने गौर्गवयो गज इत्यादिभेदेन व्यवहारो न स्यात्, तस्य शब्दैरप्रतिपादितत्वात् ।। ८९३ ।। ८९४ ॥