________________
२८४
तत्त्वसङ्ग्रहः। केऽप्यर्था येष्वपूर्वादयः शब्दाः प्रयुज्यन्त इति, तथा दृष्टार्थेष्वपि गवादिशब्देषु तुल्यम् । यतस्तेभ्योऽप्येवं प्रतीयते-अस्ति कोऽप्यर्थो गवादिशब्दाभिधेयो गोत्वादिसामान्यसम्बद्धो वेति । यस्तु तत्राकारविशेषपरिग्रहः केषांचिदुपजायते, स तेषां सिद्धान्तबलात् ॥ ८८७ ॥ आदिशब्देनोपात्ताशब्दार्थान्दर्शयन्नाह-समुदाय इत्यादि ।
समुदायोऽभिधेयो वाऽप्यविकल्पसमुचयः ।
असत्यो वाऽपि संसर्गः शब्दार्थः कैश्चिदुच्यते ॥ ८८८ ॥ केचिद्राह्मणादिशब्देस्तपोजातिश्रुतादिसमुदायो विना विकल्पसमुच्चयाभ्याममिधीयत इत्याहुर्यथा वनादिशब्दैर्धवादय इति । तथाहि-वनमित्युक्ते धवो वा खदिरो वा पलाशो वेति न विकल्पेन प्रतीतिर्भवति, नापि धवश्व खदिरश्च पलाशश्चेति समुच्चयेन, अपितु सामान्येन प्रतीयन्ते धवादयः । तथा ब्राह्मण इत्युक्ते तपो वा जातिर्वा श्रुतं वा, तपश्च जातिश्च श्रुतं चेति, न प्रतिपत्तिर्भवति । अपि तु साकल्येन सम्बन्ध्यन्तरव्यवच्छिन्नास्तपःप्रभृतयः संहताः प्रतीयन्त इति । तत्र बहुष्वनियतैकसमुदायिभेदावधारणं विकल्पः, एकत्र युगपदमिसम्बध्यमानस्य नियतस्यानेकस्य खरूपभेदावधारणं समुञ्चयः । अविद्यमानौ विकल्पसमुच्चयो यस्य स तथोक्तः । अन्ये तु द्रव्यत्वादिमिरनिर्धारितरूपैर्यः सम्बन्धो द्रव्यादीनां स शब्दार्थः, स च सम्बन्धिनां शब्दार्थत्वेनासत्यत्वादसत्य इत्युच्यते । यद्वा-तपःश्रुतादीनां मेचकवर्णवदैक्येन भासनादेषामेव परस्परमसत्यः संसर्गः । तथा ते प्रत्येकं समुदिता वा न खेन रूपेणोपलभ्यन्ते, किन्त्वलातचक्रवदेषां समूहः स्वरूपमुत्क्रम्यावभासत इति ।।८८८॥
असत्योपाधि यत्सत्यं तद्बा शब्दनिवन्धनम् ।
शब्दो वाऽप्यभिजल्पवमागतो याति वाच्यताम् ॥८८९॥ ___ अन्ये त्वाहुः यदसत्योपाधि सत्यं स शब्दार्थ इति । तत्र शब्दार्थत्वेनासत्या उपाधयो विशेषा वलयाकुलीयकादयो यस्य सत्यस्य, सर्वभेदानुयायिनः सुवर्णादेस्सामान्यात्मनः, तत्सत्यमसत्योपाधि । शब्दनिबन्धनमिति । शब्दप्रवृत्तिनिमित्तममिधेयमित्यर्थः । अन्ये तु ब्रुवते शब्द एवामिजल्पत्वमागतः शब्दार्थ इति ॥ ८८९ ॥ तत्र कोऽसावमिजल्प इत्याह-सोऽयमित्यादि।