________________
२८०
तरवसाहः। सनिहिते गवादावाभोगाविषयीकृतेऽश्व इति समयं समयकृत्कश्चित्करोति । अथापि स्यात्-सर्वेषां खलक्षणक्षणानां सादृश्यमस्ति तेनैकत्वमध्यवसाय समयः करिष्यत इत्याह साहश्यं च विकल्पितमिति । विकल्पबुद्धिसमारोपितं हि सादृश्यं, तस्ल च ध्वनिमिः प्रतिपादने सति स्खलक्षणमवाच्यमेव स्यात् । तदेवं न स्खलक्षणे समयः । सम्भवति । नापि शब्दखलक्षणस्य, तथाहि समयकारः स्मृत्युपस्थापितमेव नामभेदमर्थे योजयति । न च स्मृतिर्भावतोऽनुभूतमेवामिलापमुपस्थापयितुं शक्नोति, तस्य चिरनिरुद्धत्वात् । यचोच्चारयति तस्य पूर्वमननुभूतत्वान्न तत्र स्मृतिः, नचाविषयीकृतस्तया समुपस्थापयितुं शक्यः । अतः स्मृत्युपस्थापितमनुसन्धीयमानं विकल्पनिमितत्वेनास्खलक्षणमेवेति न स्खलक्षणस्य समयः । तस्मादव्यपदेश्यं स्खलक्षणमिति सिद्धम् ॥ ८७८ ॥ अत्रैव स्खलक्षणावाच्यत्वसिद्ध्यै प्रमाणान्तरमाह-उष्णादीत्यादि ।
(उष्णादिप्रतिपत्तिर्या) नामादिध्वनिभाविनी ।
विस्पष्टा(भासते नैषा) तदर्थेन्द्रियबुद्धिवत् ।। ८७९ ॥ यथा हुष्णाद्यर्थविषयेन्द्रियबुद्धिः स्फुटप्रतिभासा वेद्यते न तथोष्णादिशब्दभाविनी, न ग्रुपहतनयनरसनघ्राणादयो मातुलिङ्गादिशब्दश्रवणात्तद्रूपरसाद्यनुभाविनो भवन्ति यथाऽनुपहतनयनादय इन्द्रियधियाऽनुभवन्तः । यथोक्तम्- "अन्यथैवामिसंबन्धादाहं दग्धोऽमिमन्यते । अन्यथा दाहशब्देन दाहार्थः संप्रकाश्यते ॥” इति । तदर्थेन्द्रियबुद्धिवदिति वैधर्मोदाहरणम् । तदर्था चासाविन्द्रियबुद्धिश्चेति विग्रहः ॥ ८७९ ॥
यदि नाम सा तथा न भवति, तथापि किमिति शब्दस्य खलक्षणमर्थो न भवतीत्याह-न स तस्येत्यादि।
न स तस्य च शब्दस्य युक्तो योगो न तत्कृते ।
प्रत्यये सति भात्यर्थो रूपषोघे तथा रसः ॥ ८८०॥ प्रयोगः-यो हि तत्कृते प्रत्यये न प्रतिभासते न स तस्यार्थः, यथा रूपजनिते प्रत्यये रसः, न प्रतिभासते च शाब्दे प्रत्यये स्खलक्षणमिति स्थापकानुपलब्धिः। अत्र चातिप्रसङ्गो बाधकं प्रमाणम् । तथाहि-शब्दस्य तद्विषयज्ञानजनकत्वमेव तवाचकत्वमुच्यते नान्यत् , नच यविज्ञानं यदाकारशून्यं तत्तद्विषयं युक्तमतिप्रसङ्गात् ।