________________
पत्रिकासमेतः।
२८१ नचैकस्य वस्तुनो रूपद्वयमस्ति स्पष्टास्पष्टं, येनास्पष्टं वस्तुगतमेव रूपं शब्दैरमिधीयत इति स्यात् । एकस्य द्वित्वविरोधात् , मिन्नसमयस्थायिनां च परस्परविरुद्धखभावप्रतिपादनात् ॥ ८८०॥ ' नैयायिकास्तु युवते "व्यक्त्याकृतिजातयस्तु पदार्थ” इति । पदस्यार्थः पदार्थः, शब्दार्थ इति यावत् । तत्र व्यक्तिशब्देन द्रव्यगुणविशेषकर्माण्यभिधीयन्ते । तथाच सूत्रं "व्यक्तिर्गुणविशेषाश्रयो मूर्ति"रिति । अस्थार्थो वार्तिककारमतेन तावदुच्यते
-विशेष्यत इति विशेषः, गुणेभ्यो विशेषो गुणविशेषः, कर्मामिधीयते । द्वितीयश्वात्र गुणविशेषशब्द एकशेषं कृत्वा निर्दिष्टः, तेन गुणपदार्थो गृह्यते । गुणाश्च ते विशेषाश्चेति गुणविशेषाः, विशेषग्रहणमाकृतिनिरासार्थम् । तथा ह्याकृतिः संयोगविशेषः, स्वस्वभावात्, संयोगश्च गुणपदार्थान्तर्गतः, ततश्चासति विशेषग्रहणे आकृतेरपि प्रहणं स्यात् । नच तस्या व्यक्तावन्तर्भाव इष्यते, पृथक्शब्देन तस्या उपादानात् । आश्रयशब्देन द्रव्यममिधीयते, तेषां गुणविशेषाणामाश्रयस्तदाश्रयो द्रव्य. मित्यर्थः । सूत्रे तच्छब्दलोपं कृत्वा निर्देशः कृतः । एवं विग्रहः कर्त्तव्यः-गुणविशेषाश्च गुणविशेषाश्चेति गुणविशेषाः, गुणविशेषाश्च तदाश्रयश्चेति गुणविशेषाश्रयः, समाहारद्वन्द्वश्वायम् , लोकाश्रयत्वाल्लिङ्गस्येति नपुंसकलिङ्गानिर्देशः । तेनायमों भवति-योऽयं गुणविशेषाश्रयः सा व्यक्तिश्वोच्यते मूर्तिश्चेति । तत्र यदा द्रव्ये मूर्तिशब्दस्तदाऽधिकरणसाधनो द्रष्टव्यः, मूर्च्छन्त्यस्मिन्नवयवा इति मूर्तिः । यदा तु रूपादिषु तदा कर्तृसाधनः, मूर्च्छन्ति द्रव्ये समवयन्तीति रूपादयो मूर्तिः । व्यक्तिशब्दस्तु द्रव्ये कर्मसाधनो रूपादिषु करणसाधनः । भाष्यकारमतेन तु यथाश्रुति सूत्रार्थ:-गुणविशेषाणामाश्रयो द्रव्यमेव व्यक्तिमूर्तिश्चेति तस्येष्टम् । यथोक्तम् - "गुणविशेषाणां रूपरसगन्धस्पर्शानां गुरुत्वद्वत्वघनत्वसंस्काराणामव्यापिनश्च परिमाणविशेषस्याश्रयो यथासम्भवं तद्रव्यं मूर्त्तिर्मूछितावयवत्वा"दिति । आकृ. तिशब्देन प्राण्यवयवानां पाण्यादीनां तवयवानां चाङ्गुल्यादीनां संयोगोऽभिधीयते । तथाच सूत्रम्-"आकृतिर्जातिलिङ्गाख्या" इति । अस्य भाष्यम्-“यया जातिोतिलिङ्गानि चाख्यायन्ते तामाकृतिं विद्यात् , सा च नान्या सत्त्वावयवानां तद्वयवानां च नियताव्यूहात्" इति । व्यूहशब्देन संयोगविशेष उच्यते । नियतप्रहणेन कृत्रिमसंयोगनिरासः । तत्र जातिलिङ्गानि प्राण्यवयवाः शिरःपाण्यादयः, तैर्हि गोत्वादिलक्षणा जातिलिजयते । आकृत्या तु कदाचित्साक्षाजातिय॑ज्यते यदा