________________
पञ्जिकासमेतः ।
२७९
. आदिशब्देन मलयादिपरिग्रहः । एते ह्यनेकाणुप्रचयस्वभावाः, अतो नैषामशेषावयवपरिग्रहेण समयः समस्ति । प्रसाधितोदयानन्तरविनाशाश्च । तेनैतेष्वपि समयकालपरिदृष्टस्य स्वभावस्य न व्यवहारकालेष्वन्वयोऽस्तीति नासिद्धता हेतोः ||८७५ ॥
1
1
एवं तावत्स्वलक्षणे व्यवहारानुपपत्तेः समयवैयर्थ्यप्रसङ्गान्न समयः सम्भवतीति प्रतिपादितम् । साम्प्रतमशक्यक्रियत्वादेव न सम्भवतीति प्रतिपादयन्नाह — अशक्यमित्यादि ।
अशक्यं समय (स्यास्य जाते जाते च कल्पनम् ।) नाजाते समय युक्तो भाविकोऽश्वविषाणवत् ॥ ८७६ ॥ उप (नापि ?) जाते गृहीता (नां पूर्व) वाचामनुस्मृतौ । क्रियते समयस्तत्र चिरातीते ( कथं नु तत् ) ॥ ८७७ ॥
सर्व एव भावाः पूर्वं प्रसाधितोदयानन्तरापवर्गास्तेषु समयः क्रियमाणः कदाचि - दनुत्पन्नेषु वा क्रियेत, उत्पन्नेषु वा । तत्र न तावदनुत्पन्नेषु परमार्थेन समयो युक्तः, असतः सर्वोपाख्याविरहलक्षणत्वेनाधारत्वानुपपत्तेः । भाविकग्रहणं सांवृतनिषेधार्थम् । तेनाजातेऽपि पुत्रादौ समयदर्शनान्न दृष्टविरोधः, तस्य विकल्पनिर्मितार्थविषयत्वेनाभाविकत्वात् । अश्वविषाणवदिति । सप्तम्यन्ताद्वतिः । नाप्युत्पन्ने समयो युक्तः, तथाहि ——– तस्मिन्ननुभवोत्पत्तौ सत्यां तत्पूर्वके च नामभेदस्मरणे सति समयः कार्यो नान्यथाऽतिप्रसङ्गात् । ततश्च नामभेदस्मरणकाले क्षणध्वंसितया चिरनिरुद्धं स्वलक्षणमिति, नाजातवज्जातेऽपि भाविकः समयः समस्ति, समयक्रियाकाले द्वयोरप्यसन्निहितत्वात् । तथाह्यनुभवावस्थायामपि तावत्तत्कारणतया स्वलक्षणं क्षणिकं न सन्निहितसत्ताकं भवति । किं पुनरनुभवोत्तरकालभाविनामभेदाभोगस्मरणोत्पादकाले भविष्यति ।। ८७६ ॥ ८७७ ।।
अथापि स्यात्तज्जातीये तत्सामर्थ्यबलोपजाते समय क्रियाकालभाविनि क्षणे समयः करिष्यत इति, अत आह—- यश्चापीत्यादि ।
यश्चापि (तत्सजातीयस्तइ) लेन तदापरः ।
न तत्र समयाभोगः सादृश्यं च विकल्पितम् ॥ ८७८ ॥
यद्यपि समयक्रियाकाले सन्निहितं क्षणान्तरमस्ति, तथापि तत्र समयाभोगासम्भबान समयो युक्तः, न श्वमुपलभ्य तन्नामस्मरणोपक्रमपूर्वकं समयं कुर्बाणस्तत्काल