________________
२७८
तस्वसहः।
आनन्या"दित्यनेन निर्दिष्टः। तथाह्यानन्त्यादित्यनेन समयासम्भव एव दर्शितः । तेन यदुद्योतकरेणोक्तम्-“यदि शब्दान्पक्षयसि, तदाऽनन्त्यादित्यस्य वस्तुधर्मत्वाव्यधिकरणो हेतुः । अथ भेदा एव पक्षीक्रियन्ते, तदा नान्वयी न व्यतिरेकी दृष्टान्तोऽस्तीत्यहेतुरानन्त्य"मिति, तत्प्रत्युक्तं भवति । पुनः स एवाह- "यस्य निर्विशेषणा भेदाः शब्दैरभिधीयन्ते, तस्यायं दोषः, अस्माकं तु सत्तादिविशेषणानि द्रव्यगुणकर्माण्यभिधीयन्ते । तथाहि यत्र यत्र सत्तादिकं सामान्यं पश्यति तत्र तत्र सदादिशब्दं प्रयुते । एकमेव च सत्तादिकं सामान्यम् , अतः सामान्योपलक्षितेषु भेदेषु समयक्रियासम्भवादकारणमानन्य"मिति । तदेतदसम्यक्-न हि सत्तादिकं वस्तुभूतं सामान्यं तेभ्यो भिन्नमभिन्नं वाऽस्तीति प्रसाधितमेतत् । भवतु वा सामान्यं, तथाऽप्येकस्मिन्भेदेऽनेकसामान्यसम्भवादसाङ्कर्येण सदादिशब्दप्रयोजनं न स्यात् । नच शब्देनानुपदर्य सत्तादिकं तेन सत्तादिना भेदान्परमुपलक्षयितुं समयकारः शकुयात् । न चाकृतसमयेषु सत्तादिशब्दप्रवृत्तिरस्ति । ततश्चेतरेतराश्रयदोषः स्यात् । अथापि स्यात्-स्वयमेव प्रतिपत्ता व्यवहारोपलम्भादन्वयव्यतिरेकाभ्यां सदादिशब्दैः समयं प्रतिपद्यत इति । तदेतदसम्यक् । न ह्यनन्तरभेदविषयं निःशेष कश्चिव्यवहारमुपलभते । एकदा सत्तादिमत्सु भेदेष्वसकृद्व्यवहारमुपलभ्यादृष्टेष्वपि तज्जातीयेषु ताच्छब्धं प्रतिपद्यत इति चेन्न । अदृष्टत्वात् । नादृष्टेष्वतीतानागतभेदमिन्नेध्वनन्तेषु भेदेषु समयः सम्भवत्यतिप्रसङ्गात् । विकल्पबुद्ध्या व्याहृत्य तेषु प्रतिपद्यत एवेति चेत् । एवं तर्हि विकल्पसमारोपितार्थविषय एव शब्दसन्निवेशनं, न परमाथतो भेदेष्विति प्राप्तम् । तथाह्यतीतानागतयोरसत्त्वेनासन्निहितत्वात्तत्र विकल्पबुद्धिभवन्ती निर्विषयैवेति तया व्याहृतमसदेव । ततश्च तत्र भवन्समयः कथं परमार्थतो वस्तुभूतो भवेदित्यलं बहुना । सपक्षे भावान्नापि हेतोविरुद्धतेति सिद्धं स्खलक्षणाविषयत्वं शब्दानाम् ॥ ८७३ ॥ ८७४ ॥
स्यादेतो हिमाचलादयो भावास्तेषां स्थिरैकरूपत्वान्न देशकालभेदादिभेदः सम्भवत्यतः सङ्केतव्यवहाराप्तकालव्यापकत्वात्तेषु समयः सम्भवतीत्यतः पक्षैकदेशासिद्धता हेतोरित्यत आह-हिमाचलादय इत्यादि ।
हिमाचलादयो येऽपि देशकालायभेदिनः। (दृष्टास्तेष्वणवो भिन्नाः) क्षणिकाच प्रसाधिताः ॥८७५॥