________________
२०
पखिकासमेतः। ब्दानां प्रतिज्ञाहेत्वोाघात" इति तदपि प्रत्युक्तं भवति, नहि सर्वथा शब्दार्थापवादोऽस्मामिः क्रियते, तस्यागोपालमपि प्रतीतत्वात् । किन्तु तात्त्विकत्वं धर्मो या परैस्तत्रारोप्यते तस्य निषेधः क्रियते । न तु धर्मिणः ॥ ८७१॥ -- तत्र स्खलक्षणे तावत्सङ्केतसम्भवोपदर्शनादशब्दार्थत्वं प्रतिपादयन्नाह-तत्रेत्यादि ।
तत्र खलक्षणं तावन्न शब्दैः प्रतिपाद्यते। . सङ्केतव्यवहाराप्तकालव्याप्तिवियोगतः ॥ ८७२॥ ___ न शब्दैः प्रतिपाद्यत इति । तत्र सङ्केताभावादिति भावः । कथं सङ्केत्ताभाव इत्याह-सङ्केतेयादि । सङ्केतव्यवहाराभ्यामाप्तः प्राप्तो यः कालस्तस्य व्याप्तिापनं तया वियोगात्कारणात् । न तत्र स्वलक्षणे समय इति शेषः । एतदुक्तं भवति
-समयो हि व्यवहारार्थ क्रियते, न व्यसनितया, तेन यस्यैव सङ्केतव्यवहाराप्तकालव्यापकत्वमस्ति तत्रैव समयो व्यवहर्तृणां युक्तो नान्यत्र । न च खलक्षणस्य सके तव्यवहाराप्तकालव्यापकत्वमस्ति । तस्मान्न तत्र समय इति ॥ ८७२ ॥
कस्मात्पुनः स्खलक्षणस्य सङ्केतव्यवहाराप्तकालव्यापकत्वं न सम्भवतीत्याह-व्य. त्यात्मान इत्यादि ।
व्यत्त्यात्मानोऽनुयन्त्येते न परस्पररूपतः। देशकालक्रियाशक्तिप्रतिभासादिभेदतः ॥ ८७३ ॥ तस्मात्सङ्केतदृष्टोऽर्थो व्यवहारे न दृश्यते।
नचागृहीतसङ्केतो (बोध्येता)न्य इव ध्वनेः ॥ ८७४ ॥ सावलेयादयो हि व्यक्तिभेदा देशादिभेदेन परस्परतोऽत्यन्तव्यावृत्तमूर्तयो नैते परस्परमन्वाविशन्ति । तत्रैकत्र कृतसमयस्य पुंसोऽन्यैर्व्यवहारो न स्यात् । प्रतिभासादीत्यादिशब्देन वर्णसंस्थानावस्थाविशेषादिपरिप्रहः। व्यवहारो न दृश्यत इति । तेन वत्र समयाभावान्नासिद्धता हेतोरिति भावः । न चाप्यनैकान्तिकत्वमिति दर्शयनाह --नचागृहीतेत्यादि । गृहीतः सङ्केतो यत्र स तथा, न गृहीतसङ्केतोऽगृहीतस. वेतः । अन्य इवेति । विजातीयार्थवत् । ध्वनेरिति । शब्दात् । एतदुक्तं भवति । यद्यगृहीतसङ्केतमर्थ शब्दः प्रतिपादयेत्तदा गोशब्दोऽप्यश्वं प्रतिपादयेत् । सङ्केतकरणानर्थक्यं च स्यात् । तस्मादतिप्रसङ्गापत्तिर्बाधकं प्रमाणमिति सिद्धा व्याप्तिः । अयमेव चातसमयत्वादिति हेतुराचार्यदिमागेन "न जातिशब्दो भेदानां वाचक