SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ तस्वसग्रहः। • अथशब्दप्रत्ययस्य भ्रान्तत्वाविषयत्वयोः किं प्रमाणमिति चेत् , उक्तमत्र प्रमाणसस्माभिर्यद्भिन्नेष्वभेदाध्यवसायेन प्रवृत्तेः सर्व एवायं शाब्दप्रत्ययो भ्रान्त इति । तथाहि-योऽतस्मिंस्तदिति प्रत्ययः स भ्रान्तो यथा मरीचिकायां जलप्रत्ययः, तथा चायं मिनेष्वर्थेऽवभेदाध्यवसायी शाब्दप्रत्यय इति स्वभावहेतुः । नच सामान्यं वस्तुभूतं प्राह्ममस्यास्ति, येनासिद्धता हेतोरिति स्यात् , तस्य पूर्व विस्तरेण निरस्त. त्वात् । भवतु वा सामान्यं, तथापि तस्य भेदेभ्योऽर्थान्तरत्वे मिन्नेष्वभेदाध्यवसायो भ्रान्तिरेव, न ह्यन्येनान्ये समाना युक्तास्तद्वन्तो नाम स्युः । अनर्थान्तरत्वेऽपि सामान्यस्य सर्वमेव विश्वमेकमेव वस्तु परमार्थत इति तत्र सामान्यस्य प्रत्ययो भ्रान्तिरेख । नोकवस्तुविषयः सामान्यप्रत्ययः, भेदग्रहणपुरःसरत्वात्तस्य । भ्रान्तत्वे च सिद्धे निर्विषयत्वमपि सिद्धम् । खाकारार्पणेन जनकस्य कस्यचिदर्थस्यालम्बनलक्षणप्राप्तस्याभावात् । अथवा अन्यथा निर्विषयत्वं साध्यते । यत्रैव हि कृतसमया ध्वनयः, स एव तेषामर्थो युक्तो नान्योऽतिप्रसङ्गात् । न च कचिद्वस्तुन्येषां परमार्थतः समयः समस्तीत्यतो निर्विषया धीध्वनयः । प्रयोगः-ये यत्र भावतः कृतसमया न भवन्ति, न ते परमार्थतस्तममिदधति, यथा सानादिमति पिण्डेऽश्वशब्दोऽकृतसमयः, न भवन्ति च भावतः कृतसमयाः सर्वस्मिन्वस्तुनि सर्वे ध्वनय इति व्यापकानुपलब्धेः । कृतसमयत्वेनाभिधायकत्वस्य व्याप्तत्वात् , तस्य चेहाभावः । नचायमसिद्धो हेतुरित्यादर्शयन्नाह-यत इत्यादि । यतः खलक्षणं जातिस्तद्योगो जातिमांस्तथा। वुद्ध्याकारो न शब्दार्थ घटामञ्चति तत्त्वतः ।। ८७१ ॥ तथाहि गृहीतसमयं वस्तु शब्दार्थत्वेन व्यवस्थाप्यमानं कदाचित्स्वलक्षणं वा व्यवस्थाप्यते, जातिर्वा, तद्योगो वा, तया-जात्या, योगः-सम्बन्धः, यद्वा जातिमान् , पदार्थबुद्धेर्वा आकार, इति विकल्पाः । तत्र सर्वेष्वेव समयासम्भवान्न युक्तं शब्दार्थत्वम् । तत्त्वत इत्यनेन सांवृतस्य शब्दार्थस्याप्रतिषेधं दर्शयति । तेन खवचनव्यापातो न भवति । अन्यथा हि प्रतिक्षायाः स्ववचनविरोधः स्यात् । तथा खेतान्खलक्षणादीन्शब्देनाप्रतिपाद्य न शक्यमशब्दार्थत्वमेषां प्रतिपादयितुम् । तत्प्रतिपिपादयिषया च शब्देन स्खलक्षणादीनुपदर्शयता शब्दार्थत्वमेषामभ्युपेतं स्यात् । पुनश्च तदेव प्रतिज्ञया प्रतिषिद्धमिति स्वबचनव्याघातः । एतेन यदुक्तमुद्योतकरेण "अवाचकत्वे श
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy