________________
पविकासमेतः।
२७५ न्यापोढ इत्युच्यते । तेनापोहः शब्दार्थ इति प्रसिद्धम् । तत्र विधिवादिनश्चोदयन्ति । यदि भवतां द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षणा उपाधयो विशेषणानि शब्दप्रत्ययं प्रति निमित्तानि परमार्थतो न सन्ति, तत्कथं लोके दण्डीत्यमिधानप्रत्ययाः "प्रवर्त्तन्ते द्रव्याधुपाधिनिमित्ताः । तथाहि-दण्डी विषाणीत्यादिधीध्वनी लोके द्रव्योपाधिको प्रसिद्धौ, शुक्लः कृष्ण इति गुणोपाधिकौ, चलति भ्रमतीति कर्मनिमित्तौ, अस्ति विद्यत इति सत्ताप्रवृत्तिनिमित्तको, गौरश्वो हस्तीति सामान्यविशेषोपाधी, इह तन्तुषु पट इति समवायबलात् । तत्रैषां द्रव्यादीनामभावे दण्डीत्यादिधीध्वनी निविषयौ स्यातामिति । आदिग्रहणं प्रत्येकमभिसम्बध्यते । तेन प्रत्येकं छत्री विषाणीत्यादिसमानजातीयधीध्वनीनां ग्रहणं भवति । अन्त्यास्तु विशेषा योगिनामेव ग्राह्या इति न तेषामादिशब्देन परिग्रहः । न चानिमित्तावेतौ युक्ती, सर्वत्राविशेषेण सर्वदा तयोर्वृत्तिप्रसङ्गात् । न चाविभागेन तयोः प्रवृत्तिरस्ति । तस्मात्सन्ति द्रव्यादय इति परः । प्रयोग:-ये परस्परमसङ्कीर्णप्रवृत्तयस्ते सनिमित्ताः, यथा श्रोत्रादिप्रत्ययाः, असङ्कीर्णप्रवृत्तयश्च दण्डीत्यादिशब्दप्रत्यया इति स्वभावहेतुः । अनिमित्तत्वे सर्वत्राविशेषेण प्रवृत्तिप्रसङ्गो बाधकं प्रमाणम् ॥ ८६७ ॥ ८६८ ॥ उच्यत इत्यादिना प्रतिविधत्ते।
उच्यते विषयोऽमीषां धीध्वनीनां न कश्चन ।
अन्तर्मात्रानिविष्टं तु बीजमेषां निबन्धनम् ॥ ८६९ ॥ तत्र यदि मुख्यतो बाह्येन विषयभूतेन सनिमित्तत्वमेषां साधयितुमिष्टं तदाऽनैकान्तिकता हेतोः साध्यविपर्यये बाधकप्रमाणाभावात् । अथ येन केनचिनिमित्तेन सनिमित्तत्वमिष्यते तदा सिद्धसाध्यता । तथा ह्यस्मामिरिष्यत एवैषामन्त ल्पवासनाप्रबोधो निमित्तम् , न तु विषयभूतं, भ्रान्तत्वेन पूर्वस्य शाब्दप्रत्ययस्य निर्विषयत्वात्। अन्तर्मात्रानिविष्टमिति । विज्ञानसन्निविष्टं, वासनेति यावत् ॥ ८६९ ॥
एतदेवागमेन संस्पन्दयन्नाह यस्य यस्येत्यादि । । यस्य यस्य हि शब्दस्य यो यो विषय उच्यते।
स स (संविद्य)ते नैव वस्तूनां सा हि धर्मता ॥ ८७०॥ यो यो विषय इति । खलक्षणसामान्यादिः । सा हि धर्मतेति । सा-प्रकृतिः, सर्ववाक्पथातीतत्वं वस्तूनां स्वभाव इति यावत् । यथोक्तम्-'येन येन हि नाना वै यो यो धर्मोऽमिलप्यते । न स संविद्यते तत्र धर्माणां सा हि धर्मते"ति ॥ ८७०॥