________________
२७४
तत्त्वसहहः । संयोगादिवदेवं हि नन्वस्य बहुता भवेत्। एवमाद्यस्य सद्भावे बहु स्यादसमञ्जसम् ॥ ८६६ ॥
इति समवायपदार्थपरीक्षा। अथान्य एवेति द्वितीयः पक्षस्तदा संयोगादिवत्समवायबहुत्वं प्राप्नोति, ततश्च न समवायो भेदवानित्यस्याभ्युपेतस्य हानिः । एवमादीत्यादिशब्देन कारणवैफल्यं, अनेकसूत्रविरोधः, प्रत्यक्षादिविरोधः, सर्वपदार्थानामक्रमोत्पत्तिरित्यादिदोषान्तरपरिग्रहः। तथाहि-स्वकारणसमवायः सत्तासमवायो वा जन्मोच्यते, समवायश्च नित्य इति न कचिदपि कार्यजन्मनि कारणानां सामर्थ्यमिति कारणवैफल्यम् । तथा "अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः, इन्द्रियार्थसन्निकर्पोत्पन्नं ज्ञान"मित्यादिजन्मप्रतिपादकसूत्रविरोधः । तथा प्रत्यक्षादिप्रतीतिकारणानि चक्षुरादीनि विरुध्यन्ते। तथा समवायलक्षणस्य जन्मनो नित्यतया न क्रमोस्तीति क्रमोत्पत्तिदृष्टभावानां विरुध्यते । ततश्च युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति स्वसिद्धान्तव्याहतिः । नित्यत्वाच जन्मनोऽनुपकार्योपकारकभूतं जगदिति व्यर्थ शास्त्रप्रणयनमित्यादिबहुतरमसमञ्जसमालूनविशीर्ण स्यात् ॥ ८६५ ॥ ८६६ ॥
इति समवायपदार्थपरीक्षा। आरोपिताकारशब्दप्रत्ययगोचरत्वसमर्थनार्थ प्रस्तावमारचयन्नाह-यदीत्यादि ।
यदि नोपाधयः केचिद्विद्यन्ते (परमार्थतः)। (दण्डी शुक्लश्चलत्यस्ति गौ)रिहेत्यादिधी(ध्वनी) ॥ ८६७ ॥ (स्यातां) किंविषयावेतौ नानिमित्तौ च तौ मतौ।
सर्वस्मिन्नविभागेन तयोवृत्तिरसम्भवी ॥ ८६८॥ वस्त्वेव हि परमार्थतः शब्दप्रत्ययप्राह्यम् , अतः शब्दैः साक्षाद्विधिनिषेधाभ्यां वस्तुखभावप्रतिपादनाद्विधिरैव शब्दार्थ इति विधिशब्दार्थवादिनां दर्शनम् । अपोह. वादिनां तु न परमार्थतः शब्दानां किंचिद्वाच्यं वस्तुस्वरूपमस्ति । सर्व एव हि शब्दप्रत्ययो भ्रान्तो मिन्नेष्वर्थेष्वभेदाकाराध्यवसायेन प्रवृत्तेः, यत्र तु पारम्पर्येण वस्तु. प्रतिबन्धः, तत्रार्थासंवादो भ्रान्तत्वेऽपीति दर्शनम् । तत्र यत्तदारोपितं विकल्पधियाऽर्थेध्वमिन्नं रूपं तदन्यव्यावृत्तपदार्थानुभवबलायातत्वात्स्वयं चान्यव्यावृत्ततया प्रख्यानाद्धान्तै चान्यन्यावृत्तार्थेन सहक्येनाध्यवसितत्वादन्यापोढपदार्थाधिगतिफलनाचा.