________________
२७३
पत्रिकासमेतः। तीत्याशय परः प्रतिविधत्ते-न भेदत इति । संयोगो हि प्रतिसंयोगि मिद्यते । तेनास्यानित्यत्वं युक्तं, समवायस्तु-इहप्रत्ययनिबन्धनस्यामिन्नत्वादेक एव जगति । तेनास्यानित्यत्वमयुक्तमन्यत्रापि सम्बन्ध्यन्तरे तस्योपलभ्यमानत्वात् ॥ ८५९ ॥ ४. यद्येवमित्यादिना प्रतिविधत्ते ।
यद्येवं ये विनश्यन्ति घटाद्याः समवायिनः । तेषां वृत्त्यात्मको योऽसौ समवायः प्रकल्पितः ॥ ८६०॥ स एव व्यवतिष्ठेत किं सम्बन्ध्यन्तरस्थितेः। अथान्य एव संयोग"""""बहुतादिवत् ॥ ८६१ ॥ नाद्यस्तल्लक्षणस्यैव समवायस्य संस्थितौ। पूर्ववत्ते स्थिता एव प्राप्नुवन्ति घटादयः ॥ ८६२ ॥ न तेषामनवस्थाने तेषां (वृत्त्यात्मकः कचित्) । सम(वायोऽ)वतिष्ठेत संज्ञामात्रेण वा तथा ॥ ८६३ ॥ अतः प्रागपि सद्भावान ते वृत्ताः स्युराश्रये।
पश्चादिव तथा ह्येषा वृत्तिस्तेषामवस्तुतः ॥ ८६४ ॥ तथाहि ये ते विनश्यन्ति घटादयः खकारणादिसमवायिनस्तेषां स्वकारणेषु वृ. त्यात्मको योऽसौ समवायः कल्पितः स एव किं तेषु विनष्टेषु सम्बन्ध्यन्तरेष्वस्ति, आहोखिदन्य एव, यथा संयोगो बहुत्वं वा प्रतिसंयोगि मिद्यते । आदिशब्दाद्विभागादिपरिग्रहः । तत्र यद्याद्यः पक्षस्तदा प्रागवस्थावदप्रच्युतप्रवृत्तित्वादवस्थिता एव घटादयः प्राप्नुवन्ति, तेषां वा घटादीनामनवस्थानेऽनवस्थितप्रवृत्तित्वान्नावस्थितिः समवायस्य प्राप्नोति, अन्यथा न वृत्त्यात्मकः स्यात् । तथाभूतस्य च खतग्रस्यानुपकारिणो वृत्तिः समवाय इति वा नामकरणे संज्ञामात्रमेव स्थात्, न तु वस्तुतथाभावस्तथेति । तद्वृत्त्यात्मक इत्येवं ततः संज्ञामात्रान्वयो दोषस्तं दर्शयति-अत इत्यादि । प्रागपि सम्बन्धिनाशात् ।अविनष्टसम्बन्ध्यवस्थायामपीत्यर्थः । ते घटादयः। । स्वाश्रये वृत्तास्तस्य समवायस्य भावात्सद्भावबलान सिध्येयुः । पश्चादिव-विनटसमवायिकारणवत्, परमार्थतो वृत्त्यभावात् । तथाहीत्यादिना हेत्वर्थ दर्शयति ॥ ८६० ॥ ८६१ ॥ ८६२ ॥ ८६३ ॥ ८६४ ॥
अथान्य एव संयोगविभागबहुतादिवत् । सम्बन्भ्यन्तरसदावे समवायोग्वतिष्ठते ॥ ८१५ ॥