SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ २७२ सादेतत्-घटादीनां ये खारम्भकावयवास्तेषां विभागाद्विनाशाद्वा बटादीनां विनाशः। यथा घटस्योद्वेष्टनपाकावस्थयोः क्रियादयः स्पर्शवद्रव्यसंयोगादिभ्यो विन. श्यन्ति । यथोक्तम्-स्पर्शवद्रव्यसंयोगात्कर्मणो नाशः कार्यविरोधि च कर्मेति । तथा बुद्धे यन्तराद्विनाशः शब्दस्य शब्दान्तरादिति परप्रक्रिया। तेन सत्यपि समवायेऽवस्थितिहेतौ सहकारिकारणान्तराभावाद्विरोधिप्रत्ययोपनिपाताच न नियत्वप्रसङ्गो घटादीनामिति परस्य भावः । न तदित्यादिना प्रतिषेधति । तयुक्तं, यतस्वेषामपि वारम्भकावयवानां कपालादीनां खारम्भकेष्ववयवान्तरेषु समवायः सर्वदाऽस्त्येवेति कुतो विनाशो विभागो वा । न केवलं तदारब्धानां द्रव्याणां क्रियादीनां चेत्यपिशब्देन दर्शयति । यदि तु स्वारम्भकाणामवयवानां विनाशोऽभ्युपगम्येत, तदा नियतमस्य समवायस्यापि विनाशः प्राप्नोति ॥ ८५५ ॥ ८५६ ॥ कस्मादित्याह-सम्बन्धिनो निवृत्ती हीत्यादि । सम्बन्धिनो निवृत्तौ हि सम्बन्धोऽस्तीति दुर्घटम् । नहि संयुक्तनाशेऽपि संयोगो नोपतिष्ठते ॥ ४५७॥ यथा संयोगभावे तु संयुक्तानामवस्थितिः । समवायस्य सद्भावे तथा स्यात्समवायिनाम् ॥ ८५८॥ एतदेव घटयनाह-नहीत्यादि । ततश्च विनष्टसम्बन्धित्वान्नष्टसंयोगिसंयोगवद्नित्यः समवायः प्राप्नोतीत्युक्तं भवति । सम्बन्धिनां वा स्थितिः प्राप्नोति, अविनष्टसंबन्धत्वात् , अनुपरतसंयोगद्रव्यद्वयवत् । अन्यथा तत्सम्बन्धस्वभावहानिरुभयेषामपि प्रसन्येत ॥ ८५७ ॥ ८५८ ॥ एकसम्बन्धनाशेऽपीत्यादिना परः प्रत्यवतिष्ठते । एकसम्बन्धिनाशेऽपि समवायोऽवतिष्ठते । अन्यसम्बन्धिसद्धावाद्योगो नो चेन्न भेदतः ॥ ८५९ ॥ एवं मन्यते यदि प्रथमे हेतौ विनष्टाशेषसम्बन्धित्वादिति हेत्वर्थोऽमिप्रेतः। तदा पक्षैकदेशासिद्धता हेतोः । न ह्यशेषाणां सम्बन्धिनां विनाशः कचिदस्ति । प्रलयेऽपि परमाण्वादीनामवशिष्यमाणत्वात् । अथ यथाकथंचिद्विनष्टसम्बन्धित्वसम्बन्धमधिकृत्य हेतुरुच्यते, तदाऽनैकान्तिकता, यदि नामैकः सम्बन्धी कचिद्विनष्टस्तथाऽप्यपरसम्बधिनिबन्धनावस्थितिरस्य भविष्यति । यद्येवं संयोगस्याप्यनया नीत्या नित्यत्वं प्राप्नो
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy