________________
पलिकासमेतः।
२७१ व्यङ्ग्यव्यजकशक्तिप्रतिनियमात्तर्हि नियमो भविष्यतीत्याह-व्यायेत्यादि ।
व्यायव्यञकसामर्थ्यभेदोऽपि समवायतः ।
नान्यतस्तु स नित्यानामुत्पादानुपपत्तितः ॥ ८५१ ॥ - द्रव्यत्वादिसामान्यन्य जकत्वं द्रव्यादीनां यदुच्यते तत्समवायबलादेव । तथाहि
-यप्त एव द्रव्यत्वं द्रव्ये समवेतं तत एव तेन तद्व्यज्यत इत्युच्यते । अन्यत इति । सौगतोपवर्णितात् ज्ञानोत्पादनयोग्यस्वभावोत्पादनात् । यस्मानित्यानामपि सत्तादीनां समवाय इष्टः, न च नित्यानामुत्पत्तिर्युक्ता ॥ ८५१ ॥ एतदेव न हीत्यादिना समर्थयते।
नहि दीपादिसद्भावाजायन्ते यादृशा इमे ।
विज्ञानजनने योग्या घटाद्या जातयस्तथा ॥ ८५२॥ यश्चापि दधिकुण्डसंयोगो दृष्टान्तत्वेनोक्तः, सोऽप्यस्माकमसिद्ध इति दर्शयतिकुण्डदनोरित्यादि।
कुण्डदनोश्च संयोग एकः पूर्व निराकृतः।
न चासौ नियतस्तस्माद्युज्यते(तिप्रसङ्गतः) ॥ ८५३ ॥ पूर्वमिति । संयोगपदार्थदूषणे । भवतु नाम संयोग एकः, तत्रापि तुल्य एव प्रसङ्ग इति दर्शयति-न चासावित्यादि । तस्मादिति । संयोगात् । दन्नि कुण्डमित्यादिबुद्धिप्रसङ्गोऽतिप्रसङ्गः । संयोगस्य निमित्तस्य निर्विशिष्टत्वात् ॥ ८५३ ॥ यञ्चोक्तं कारणानुपलब्धेनित्यः समवाय इति तत्राह-नित्यत्वेनेत्यादि ।
नित्यत्वेनास्य सर्वेऽपि नित्याः प्रासाः (घटादयः)। ___ आधारेषु सदा तेषां समवायो न संस्थितः ॥ ८५४ ॥
यदि हि समवायो नित्यः स्यात्तदा घटादीनामपि नित्यत्वप्रसङ्गः, स्वाधारेषु तेषां सर्वदाऽवस्थानात् । तथाहि-समवायास्तित्वादेवैषां खाधारेष्ववस्थानमिष्यते, स च समवायो नित्य इति किमिति सदाऽमी न संतिष्ठेरन् ॥ ८५४ ॥ खारम्भकेत्यादिना परस्योत्तरमाशङ्कते।।
खारम्भकविभागाद्वा यदि वा तद्विनाशतः। ते नश्यन्ति क्रियाया (दीव) योगादेरिति चेन्न तत् ॥८५५॥ खाधारैस्समवायो हि तेषामपि सदा मतः। तेषां विनाशभावे तु नियताऽस्यापि नाशिता ॥ ८५६ ॥