________________
२७०
तत्त्वसङ्ग्रहः। आधाराधेय इत्यादिना-प्रतिविधत्ते ।
आधाराधेयनियमो नन्वेकत्वेऽस्य दुर्घटः। द्रव्यत्वं द्रव्य एवेष्टं कथं तत्समवायतः ॥ ८४६ ॥ तस्थासौ समवायश्च गुणादिष्वपि विद्यते ।
गुणजात्यादिसम्बन्धादेक एव ह्ययं तयोः ॥ ८४७ ॥ न ह्यस्माकं रूपत्वादीनां रूपादिष्वाधेयनियमः सिद्धः, किन्तु भवतामेव, स च सर्वत्र समवायमेकमेवाभ्युपगच्छतां दुर्घट इत्यादिप्रसङ्गापादानं क्रियते । तथाहि द्रव्य एव द्रव्यत्वमित्येवं यो नियम इष्यते स समवायबलादेव, तस्य च द्रव्यत्वादेर्यः समवायः स एव गुणादिष्वप्यस्ति, गुणत्वादिजात्या तेषां सम्बन्धत्वात् । यदि नाम सम्बन्धस्तथापि स एव तत्र समवायोऽस्तीति कथमवसीयत इत्याह-एक एवेत्यादि । तयोरिति । द्रव्यत्वगुणादिजात्योः। ततश्चाभिन्ननिमित्तत्वात्तत्सङ्करप्रसङ्गो दुर्निवार इति भावः ॥ ८४६ ।। ८४७ ॥
अन्यथा गुणजात्यादिभिन्न एव भवेदयम् । .
योगिभेदात्प्रतिव्यक्ति यथा योगो विभिद्यते ॥ ८४८॥ अन्यथेति । यदि द्रव्ये द्रव्यत्वस्य यः समवायः स एव गुणादिषु गुणत्वादीनां न भवेत्तदा संयोगवत्प्रत्याधारं समवायो मिद्यते ॥ ८४८॥ यथोक्तं द्रव्यत्वादिनिमित्तानामित्यादि, तत्राह-द्रव्यत्वादीत्यादि ।
द्रव्यत्वादिनिमित्तानां व्यतिरेको न युज्यते ।
धियां निमित्तसद्भावादतस्तनियमोऽपि न ॥ ८४९ ॥ न विकले निमित्ते सति कार्यस्य व्यतिरेकोऽभावो युक्तोऽतत्कार्यत्वप्रसङ्गात् । ततश्च धियां व्यतिरेकायोगात्तस्याप्याधाराधेयभावस्य नियमो न युक्तः ॥ ८४९ ॥
ननु द्रव्य एव द्रव्यत्वमाश्रितं स्थितमित्यादिव्यपदेशतो नियमो भविष्यतीत्याह -तदाश्रितत्वेत्यादि।
तदाश्रितस्वस्थानादि तमादेवाभिधीयते।
समवायादतश्चैतन्न युक्तं तन्नियामकम् ॥ ८५० ॥ तस्मादेव हि समवायादाश्रितत्वादिव्यवस्थानमुपवर्ण्यते भवद्भिः, तस्य च सर्वत्राविशिष्टत्वे कथमेष नियमो योक्ष्यते । तस्मादेतदप्याश्रितत्वादि न तस्याधाराधेयभावस्य नियामकं युक्तम् , आधाराधेयभावेन सहैकयोगक्षेमत्वादेषाम् ॥ ८५० ॥