SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ २६९ पत्रिकासमेतः। एवमित्यादिना गजादिषु गवादिबुद्धिप्रसङ्गं समर्थयते । एवं यश्च गजखादिसमवायो गजादिषु । गोत्वादिजातिभेदानां स एव खाश्रयेष्वपि ॥ ८४०॥ .. आधारेत्यादिनाऽत्र प्रशस्तमतेरुत्तरमाशङ्कते । आधाराधेयनियमः स चैकत्वेऽपि विद्यते। द्रव्येष्विव हि तजातिकर्मखेव च कर्मता ॥ ८४१॥ स शाह-यद्यप्येकः समवायस्तथापि पञ्चपदार्थसङ्करो न भवति, आधाराधेयनियमात् । तथाहि-द्रव्येष्वेव द्रव्यत्वं, गुणेष्वेव गुणत्वं, कर्मवेव कर्मत्वम् , इत्येवं द्रव्यत्वादीनां प्रतिनियताधारावच्छेदेन प्रतिपत्तिरुपजायते ॥ ८४१ ॥ यद्येवं तर्हि समवायः प्रतिपदार्थ भिन्नः प्राप्नोतीत्याह-इहेत्यादि । इहेति समवायोत्थविज्ञानान्वयदर्शनात् । सर्वत्र समवायोऽयमेक एवेति गम्यते ॥ ८४२॥ द्रव्यत्वादिनिमित्तानां व्यतिरेकस्य दर्शनात् । धियां द्रव्यादिजातीनां नियमस्ववसीयते ॥ ८४३ ॥ इहेति समवायनिमित्तस्य प्रत्ययस्य सर्वत्रामिन्नाकारतयाऽन्वयदर्शनात्सर्वत्रैकः समवाय इति गम्यते । सत्यपि चैकत्वे द्रव्यत्वादिनिमित्तानां धियां प्रतिनियताधारावच्छेदेनोत्पत्तेः व्यतिरेकस्यानन्धयलक्षणस्य दर्शनाइव्यत्वादिजातीनां व्यतिरेको विज्ञायते । तेन पञ्चपदार्थसकरो न भवति ॥ ८४२ ॥ ८४३ ॥ कथं पुनः सम्बन्धाविशेषेऽप्यमीषामाधाराधेयप्रतिनियमो युज्यत इत्याह-तद्यथेत्यादि। तयथा कुण्डदनोच संयोगैक्येऽपि दृश्यते । आधाराधेयनियमस्तथेह नियमो मतः॥ ८४४ ॥ व्यायव्यञ्जकसामर्थ्यभेदाव्यादिजातिषु । समवायैकभावेऽपि नैव चेत्स विरुध्यते ॥ ८४५ ॥ यथाहि कुण्डदनोः संयोगैकत्वेऽपि भवत्याश्रयाश्रयिप्रतिनियमः, तथा द्रव्यत्वादीनां समवायैकत्वेऽपि व्यङ्ग्यव्यशकशक्तिभेदादाधाराधेयप्रतिनियम इति । स इत्याधाराधेयनियमः ॥ ८४४.॥ ८४५ ॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy