________________
२६८
तत्त्वसङ्कहा। शब्दा इति शेषः । तान शब्दानाभित्यैषु घटादिषु तेनाकारेण घटे रूपमित्याविना प्रवर्तते ज्ञानं, नतु समवायमाश्रित्य वर्तत इति सम्बन्धः । अत्र कारणमाह-भेदस्वेत्यादि । नहि समवायघटरूपादीनां सर्वेषां परस्परतो भेद उपलभ्यते । येनेयं समवायनिबन्धना बुद्धिर्भवेत् । एतेन हेतोरनैकान्तिकत्वं प्रतिज्ञायाश्वानुमानादिवाघितत्वमुक्तम् ॥ ८३१ ॥ ८३२ ॥ ८३३ ॥ ८३४ ॥ यबोक "मिहबुख्यविशेषा" दित्यादि, सत्राह-योक इत्यादि ।
ययेक समवायः स्यात्सर्वेष्वेव च वस्तुषु । कपालादिष्वपि ज्ञानं पटादीति प्रसज्यते ॥ ८३५॥ गजादिष्वपि गोवादि समस्तीत्यनुषज्यते। ततो गवादिरूपत्वममीषां शावलेयवत् ॥ ८३६ ॥ पटस्तन्तुषु योऽस्तीति समवायात्प्रतीयते । अस्ति चासौ कपालेषु तस्येति न तथेति किम् ॥ ८३७ ॥ नाश्रितः स कपाले चेन्ननु तन्तुष्वपीष्यते । आश्रितः समवायेन स कपालेऽपि नास्ति किम् ॥ ८३८॥ तन्तोर्यः समवायो हि पटस्येत्यभिधीयते ।
स घटस्य कपालेषु तद्धीरनवधिर्भवेत् ॥ ८३९ ॥ यद्येकलैलोक्ये समवायः स्यात्तदा कपालेषु (पट) इत्यादयोऽपि धियः प्रसूयेरन्। अश्वादिषु च गोत्वादिर्विद्यत इत्येवं स्यात् । ततश्च सावलेयादिभेदवद्गजादिष्वपि गवादिप्रत्ययो भवेत् । तथाहि-तन्तुषु पट इति यत्समवायबलात्प्रतीतिरुपवर्णिता स समवायस्तस्य पटस्य कपालादिष्वप्यस्तीति किमिति तथा प्रतीतिर्न भवेत् । स्यादेतत् न कपाले पट आश्रितस्तेन तथा प्रत्ययो न भवतीति । एतदपि मिथ्या । यतस्तन्तुअपि पट आश्रित इति यत्समवायबलादुपवर्ण्यते, स समवायः कपालेषु किं नाति, येन तत्र तन्तुष्विव पटोऽस्तीति तद्बुद्धिर्न भवेत् । किन्तु य एव तन्तौ पटस्य समपाय इति निर्दिश्यते स एव पटस्य समवायः कपालेषु, तत्कथं सकरो न स्यात् । तत्-तस्मात् , धीरनवधिः-अवधिरहिता भवेत् । ततश्च द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सम्बन्धस्यैकत्वात् । पञ्चपदार्थविभागो न स्यात् ॥८३५|| ॥ ८३६ ॥ ८३७ ॥ ८३८ ॥ ८३९ ॥