________________
परिजकासमेतः। वृक्षे शाखाः शिलाश्चाग इत्येषा लौकिकी मतिः। अगाख्यपरिशिष्टाङ्गनरन्तर्योपलम्भनात् ॥ ८३१ ॥ तो पुनस्ताखिति ज्ञानं लोकातिक्रान्तमुच्यते । घटे रूपं क्रियादीति तादात्म्यं त्ववगच्छति ॥ ८३२ ॥ रूपकुम्भादिशब्दा हि सर्वावस्थाभिधायकाः । तद्विशेषाभिधानाय तथा ते विनिवेशिताः ॥ ८३३ ॥ तानाश्रित्येषु विज्ञानं तेनाकारेण वर्तते ।
समवायान्न भेदस्य सर्वेषामप्यनीक्षणात् ॥ ८३४ ॥ वृक्षे शाखाः पर्वते शिला इत्येवं लोके दृश्यते, नतु शाखायां वृक्षः शिलासु पर्वत इति । सापि च वृक्षे शाखेत्यादिका मतिर्न समवायवशात् , किन्तु अगाख्यानि यानि परिशिष्टानि-विवक्षितशाखाशिलाव्यतिरिक्तान्यधोव्यवस्थितानि स्कन्धादीन्यङ्गानि, तेषां नैरन्तर्योपलम्भात् । अगशब्देनात्र न गच्छन्तीति कृत्वा तरखो गिरयश्चाभिप्रेताः । ताविति । अगवृक्षौ । तास्विति । शिलाशाखासु । यत्तहीदमिह घटे रूपरसगन्धस्पर्शाश्चलनं चेत्यादि लोके प्रसिद्धं ज्ञानं तस्य समवायं मुक्त्वा कोऽन्यो विषय इत्याह-घट इत्यादि । तादात्म्यं-घटखभावत्वं, रूपादीनामवगच्छति-ज्ञानं लोको वेति शेषः । घटे रूपं-घटस्वभावं रूपं, न घटाद्यात्मकमित्यर्थः । बहुषु रूपादिषु साधारणशक्तिविशेषप्रतिपादनेच्छया तदन्यरूपादिव्यवच्छेदेन घटादिश्रुतेर्निवेशः, रूपादिश्रुतिस्तु प्रत्येकमसाधारणचक्षुर्विज्ञानादिकार्यनिर्वनिसामर्थ्यद्योतनाय निवेशितेत्यतो घटादिश्रुती रूपादिभेदानाक्षिपतीति सामानाधिकरण्याभावाद्वयैयधिकरण्येनैव तादात्म्यं प्रतिपाद्यते । उभयोस्तु किमर्थ प्रयोग इत्याह -रूपकुम्भेत्यादि । रूपादिशब्दा हि सर्वावस्थस्य रूपादेर्वाचकाः । तथाहि यथा घटात्मनाऽवस्थितरूपादि रूपादीत्युच्यते तथा पटाद्यात्मनाऽवस्थितमपि, ततश्च केवलेभ्यो रूपादिशब्देभ्यो न विशेषः प्रतीयते किमवस्था रूपादय इति, घटे रूपादय इत्येवं तु प्रयोगे घटात्मकास्त इति पटादिव्यवच्छेदेन प्रतीयन्ते । तथा घटशब्दोऽपि सर्वावस्थं घटं ब्रूते, शुक्लं पीतं चलं निश्चलमित्यादिकम् , अतः केवलान्न विशेषप्रतीतिः, घटे शुक्लं रूपमित्यादिप्रयोगे तु तदन्यरूपादिव्यवच्छेदेन प्रतिपचिर्भवति, ततश्च तस्यैवम्भूतस्य विशेषस्याभिधानाय यथा तथा घटे रूपमिति ते निवेशिताः ।