SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ २६६ तत्त्वसङ्ग्रहः। मिद्यते, किं तर्हि ? भाववत् सत्तावत् , तल्लिङ्गाविशेषाद्विशेषलिङ्गाभावात्सर्वत्रैक एवं समवायः । योगवदिति । वैधHदृष्टान्तः । अकारणत्वाञ्च भाववदेव नित्यः सिद्धः, अकारणत्वं च प्रमाणतः कारणानुपलब्धेः सिद्धम् ॥ ८२४ ॥ ८२५ ॥ ८२६ ॥ तदेतदित्यादिना दूषणमारभते । तदेतदिहविज्ञानं परेषामेव वर्तते। खसिद्धान्तानुरागेण न दृष्टं लौकिकं तु तत् ॥ ८२७ ॥ तदनेन हेतोराश्रयासिद्धतामाह । इह तन्तुषु पट इत्यादिका हि धियः स्वसिद्धान्तानुरागोपकल्पिता एव । नतु लोके तथोत्पद्यमानाः संवेद्यन्त इत्यतः साध्यधर्मी न सिद्धः ॥ ८२७॥ नानात्वेत्यादिना-तामेव धर्म्यसिद्धिं समर्थयते । नानात्वलक्षणे हि स्यादाधाराधेयभूतयोः। इदमत्रेति विज्ञानं कुण्डादौ श्रीफलादिवत् ॥ ८२८ ॥ नैव तन्तुपटादीनां नानात्वेनोपलक्षणम् । -- विद्यते येन तेषु स्युरिदमत्रेति बुद्धयः ॥ ८२९ ॥ ययोर्हि नानात्वमुपलक्षितं भवेत्तयोरेवाधाराधेयभावे सतीहबुद्धिरुद्भवन्ती लोके दृष्टा, यथेह कुण्डे श्रीफलानीति, नच तन्तुपटयो नात्वमुपलक्षितं विद्यते च, तत्कथं तत्रेहबुद्धिर्भवेत् ॥ ८२८ ॥ ८२९ ॥ स्यादेतद्यदि नामाऽस्मामिः सिद्धान्तबलादुपकल्पितेयमिहमतिस्तथाप्यस्या भवद्भिनिबन्धनं वक्तव्यमित्याह-स्वेच्छेत्यादि । खेच्छया रचिते वाऽस्मिन्कल्पितेष्विव वस्तुषु । न कारणनियोगोऽयं परं प्रत्युपपद्यते ॥ ८३० ॥ यो हि यत्कारणमेव नेच्छति स कथं कार्य स्वयमुपकल्प्य तत्कारणं पर्यनुयुज्यते, आत्मैव हि भवता पर्यनुयोक्तव्यः, येनेदं कार्यमुपकल्पितमिच्छावशात् , नैवेच्छानां वस्तुस्वभावानुरोधः, स्वातत्र्यवृत्तित्वादासाम् , नातो वस्तुसिद्धिरनवस्थाप्रसङ्गात् । तथाहि-भवदुपकल्पितस्यापि हि वस्तुनः कैश्चिदन्यथाऽपि कल्पयितुं शक्यत्वात् ॥ ८३०॥ अपिच न केवलमिह तन्तुषु पट इत्यादिका धियो लोके न सिद्धाः, किन्तु तद्विपरीता एवं प्रसिद्धा इति दर्शयन्नाह-वृक्ष इत्यादि ।
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy