________________
पषिकासमेतः। एवं प्रदीपदृष्टान्तेऽपि घटादीनां ज्ञानोत्पत्तिहेतुत्वं परोपाधिकं योज्यम् । नेत्याविना -विशेषाणां बाधकं प्रमाणमाह । तस्यापि पूर्ववत् स्वरूपं प्रतिबन्धश्च वाच्यः ॥ ८१९ ॥ ८२० ।। ८२१ ॥ ८२२ ॥
इति विशेषपरीक्षा । समवायदूषणार्थमाह-तन्तुष्पित्यादि ।
तन्तुष्वेव पटोऽमीषु वीरणेषु कटः पुनः ।
इत्यादीहमतेर्भावात्समवायोऽवगम्यते ॥ ८२३ ॥ अयुतसिद्धानामाधार्याधारभूतानामिहबुद्धिहेतुर्यः सम्बन्धः स समवायः, स चायमिह तन्तुषु पट इत्यादीहबुद्धिविशेषतो द्रव्यादिभ्योऽर्थान्तरत्वेनावगम्यते । यथाहि सत्ताद्रव्यत्वादीनां स्वाधारेष्वात्मानुरूपप्रत्ययकर्तृत्वात्खाश्रयादिभ्यः परस्परतश्चार्थान्तरमावस्तथा समवायस्यापि पञ्चसु पदार्थेषु-इह तन्तुषु पटः, इह द्रव्ये गुणकर्मणी, इह ट्रन्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वम् , इह गुणेषु गुणत्वम् , इह कर्मणि कर्मत्वम् , इह द्रव्येष्वन्त्या विशेषा, इत्यादिप्रत्ययदर्शनात्पञ्चभ्यः पदार्थेभ्योऽर्थान्तरत्वं गम्यते । प्रयोगः-यो येषु यदाकारविलक्षणः प्रत्ययः, स तदर्थान्तरनिबन्धनः, यथा देवदत्ते दण्डीति प्रत्ययः, तथाचायं पञ्चसु पदार्थेविहप्रत्यय इति खभावहेतुं मन्यते ॥ ८२३ ॥ प्रतिबन्धमस्य दर्शयन्नाह-तस्याभाव इत्यादि ।
तस्याभावे स चेकि हि मतेरस्या निवन्धनम् । न विशेषमतिदृष्टा निमित्तान्तरवर्जिता ॥ ७२४ ॥ इहबुद्ध्यविशेषाच योगवन्न विभिद्यते । सर्वसिन्भाववत्त्वेष एक एव प्रतीयते ॥ ८२५ ॥ कारणानुपलब्धेश्च नित्यो भाववदेव सः।
न यस्य कारणं किश्चित्प्रमाणेनोपलभ्यते ॥ ८२६ ॥ निवन्धनमन्तरेण भवतो नित्यं सत्तादिप्रसङ्गो बाधकं प्रमाणम् । एवं तावद्वैशेविकाणां मतेन-पहबुद्धिलिङ्गानुमेयः समवायः, नैयायिकमतेन तु-हबुद्धिप्रसक्षगम्य एव । तथाहि ते अक्षव्यापारे सतीह तन्तुषु पट इत्यादिप्रत्ययोत्पतेः प्रत्यक्षत्वमाचक्षते । स चायं समवायो यथा संयोगः सम्बन्धेषु मिन्नतथा. नायं