________________
२६४
तस्वसङ्कहः। स्वत एवेत्यादिना प्रशस्तमतेरत्रोत्तरमाशङ्कते ।
खत एवाशुचिस्वं हि श्वमांसादेर्यथा स्थितम् । तद्योगादपरेषां तु तथेहापि यदीष्यते ॥ ८१७ ॥ यथा प्रकाशको दीपो घटादेश्च खतः स्थितः।
तत्प्रकाशात्मतायां च नियतोऽयमिदं तथा ॥ ८१८ ॥ स ह्याह-यथा श्वमांसादीनां स्वत एवाशुचित्वं, तद्योगाच्चान्येषां तथेहापि तादाम्यादन्त्येषु विशेषेषु स्वत एव व्यावृत्तिप्रत्ययहेतुत्वं, तद्योगात्परमाणुषु । किंचातदात्मकेष्वप्यन्यनिमित्तः प्रत्ययो भवत्येव, यथा घटादिषु प्रदीपात् , नतु प्रदीपेषु घटादिभ्य इति । नियतोऽयमिति । घटादिः । इदं तथेति । वैलक्षण्योपलक्षणं विशेषेभ्य एवाग्वादीनां, विशेषाणां स्वत एवेत्यर्थः ॥ ८१७ ॥ ८१८ ॥ ननु चेत्यादिना प्रतिविधत्ते।
ननु चाशुचिभावोऽयं सांवृतो न तु तात्त्विकः । तत्वयं परतो वाऽयं कथं नाम भविष्यति ॥ ८१९॥ अथवा भाविकत्वेऽपि श्वमांसादिवशादिमे । जायन्तेऽशुचयो भावा नैव नित्या अजन्मतः ॥ ८२० ॥ प्रदीपादिप्रभावाच ज्ञानोत्पादस्वरूपताम् । लभन्ते क्षणिका बर्थाः कलशाभरणादयः ॥ ८२१ ॥ न विवादास्पदीभूतविशेषवलभाविनी। वैलक्षण्यमतिस्तेषु क्रमोत्पत्तेः सुखादिवत् ।। ८२२ ॥
इति विशेषपरीक्षा।। अशुचित्वं हि नाम भावानां कल्पनोपरचितं, न पारमार्थिकमनवस्थितत्वात् । तथाहि-यदेव द्रव्यं कस्यचिच्छ्रोत्रियादेरशुचित्वेनाभाति, तदेवान्यस्य कौटिकादेः शुचित्वेन, न चैकस्य परस्परप्रत्यनीकानेकरूपसंपातो युक्त एकत्वहानिप्रसङ्गात् । अथवा भवतु भाविकमशुचित्वं भावानां, तथापि नेदं दृष्टान्तेन समम् । तथाहिश्वमांसादिकाशुचिद्रव्यसंपर्कादन्नादयो भावाः परित्यक्तपूर्वशुचिस्वभावा अन्य एवाशुचयो जायन्ते । अतो युक्तमेषां परोपाधिकमशुचित्वम् । नत्वेवं किंचित्परमाण्वादिषु निबन्धनमस्ति, येनैषां परोपाधिकं वैलक्षण्यं भवेत्तथा, नित्यत्वादेवाजन्मतोऽनुत्पत्तेः।