________________
पश्चिकासमेतः ।
विशेषदूषणमाह-ये पुनरित्यादि ।
ये पुनः कल्पिता एते विशेषा अन्त्यभाविनः । नित्यद्रव्यव्यपोहेन तेऽप्यसंभविताः क्षणाः ॥ ८१३ ॥
२६३
यत्तावन्नित्यद्रव्यवृत्तित्वमन्त्यद्रव्यभावित्वं च विशेषाणां लक्षणमुक्तं तदसम्भवदोषदुष्टत्वादलक्षणमेव, नहि नित्यं किंचिद्द्रव्यमस्ति, तस्य पूर्व द्रव्यपरीक्षायां व्यपोढत्वात्, तत्कथं तद्वृत्तित्वमेषां सिद्ध्येत् ॥ ८१३ ॥
यदपि योगिनां विशेषप्रत्ययबलात्सत्त्वमेषां साध्यते, तत्राप्यनैकान्तिकतेति दर्शयति - अण्वाकाशदिगादीनामित्यादि ।
अण्वाकाशदिगादीनामसङ्कीर्ण यदा स्थितम् । स्वरूपं च तदैतस्माद्वैलक्षण्योपलक्षणम् ॥ ८१४ ॥ मिश्रीभूतापरात्मानो भवेयुर्यदि ते पुनः । नान्यभावेऽप्यविभ्रान्तं वैलक्षण्योपलक्षणम् ॥ ८१५ ॥ कथं तेषु विशेषेषु वैलक्षण्योपलक्षणम् । स्वत एवेति चेन्नैवमण्वादावपि किं मतम् ॥ ८१६ ॥
तथा—अण्वादीनां रूपं स्वस्वभावावस्थानात्परस्परमसङ्कीर्ण वा भवेत्, मिश्रीभूतं वा । यद्याद्यः कल्पस्तदा स्वत एवासङ्कीर्णवस्तू पलम्भात्तेषु योगिनां परस्परवैलक्षण्यबुद्धिर्भविष्यतीति व्यर्था विशेषान्तरकल्पना । अथ द्वितीयः पक्षस्तदा कथमिव विशेषाख्यपदार्थान्तरसन्निधानेऽपि तेषु परस्पराव्यतिभिन्नस्वभावेषु विलक्षणं ज्ञानं योगिनामभ्रान्तमुत्पद्यते, भ्रान्तमेव तत्स्यादतस्मिंस्तथावृत्तत्वात् । ततश्चायोगिन एव स्युः, भ्रान्तज्ञानसंसर्गित्वादिति भावः । किंच - यदि विशेषाख्यपदार्थान्तरमन्तरेण विलक्षणाधीन जायते तत्कथं तेष्वेव विशेषेषु विलक्षणा धीर्भवति, नहि तेष्वपरे विशेषाः सन्त्यनवस्थाप्रसङ्गात् । नित्यद्रव्यवृत्तयोऽन्त्या इति चाभ्युपगमहानिप्रसङ्गाच, विशेषेष्वपि वृत्तेः । अतः स्वत एवैषां परस्परवैलक्षण्यमतिहेतुत्वमङ्गीक्रियते तदा परमावादीनामपि तद्धेतुत्वं स्वत एवास्तु, को यत्र तेषु प्रद्वेषो येन तेषां स्वत एव परस्परव्यावृत्तमूर्तीनामपि सतां परमाण्वादीनां परस्परवैलक्षण्यज्ञानोत्पत्तिहेतुत्वं नेष्यते विशेषाणां त्विष्यत इति । नात्र किंचित्कारणमुत्पश्यामोऽन्यत्र जाड्यात् ।। ८१४ ।। ८१५ ॥ ८१६ ॥