________________
पत्रिकासमेतः।
२६१ घटादिव्यक्तिशून्ये देशे घटादिवस्तुप्रादुर्भावे सति ते जातिभेदा घटत्वादयः कर्य तत्र घटादौ दृश्यन्ते वर्तन्ते चेति न गम्यते-नावबुध्यत इति यावत् ॥ ८०६ ॥ कथमित्याह-नहीलादि।
न हि तेन सहोत्पन्ना नित्यत्वान्नाप्यवस्थिताः।
तत्र प्रागविभुत्वेन नचायान्त्यन्यतोऽक्रियाः ॥ ८०७ ॥ तथाहि-यदि घटादिना व्यक्तिभेदेन सहोत्पन्नास्ते भवेयुः प्राग्वा तत्रावस्थिताः स्युरन्यतो वा देशान्तरादागच्छेयुस्तदा तत्र दृश्येरन्वर्तेरन्वा । यावता न तेषामुत्पादो नित्यत्वात् , नापि प्रागवस्थानं सर्वव्यापित्वात् ; नाप्यन्यदेशादागमनमक्रियत्वात्। तत्कथं तेषु तेषां वृत्तिरुपलब्धिर्वा भवेत् । प्रयोगः-ये यत्र नोत्पन्ना नापि प्रागवस्थायिनो नापि पश्चादन्यतो देशादागतिमन्तस्ते तत्र नोपलभ्यन्ते नापि वर्त्तन्ते, यथा शशशिरसि तद्विषाणम् , तथाच सामान्यं तच्छून्यदेशोत्पादवति घटादिके वस्तुनीति व्यापकानुपलब्धिः । न चायमनैकान्तिको हेतुः, तत्र वृत्युपलम्भयोः प्रकारान्तराभावात् ॥ ८०७ ॥ द्वितीयेऽपि पक्षे दोषमाह-स्वाश्रयेत्यादि ।
खाश्रयेन्द्रिययोगादेरेकसिस्तबहे सति ।
सर्वत्रैवोपलभ्यरंस्तत्वरूपाविभागतः ॥ ८०८॥ खाश्रयेन्द्रियसंयोगादेः-उपलम्भहेतोः । आदिशब्देनात्ममनःसमिकर्षादिपरि. प्रहः । एकस्मिन्व्यक्तिभेदे तेषां जातिभेदानां ग्रहणे सति सर्वत्रैव विजातीयेऽपि व्यक्तिभेदेऽन्तराले चोपलभ्येरन् , सेषां यथास्वमेकरूपतया प्रत्येकं गृहीतरूपाव्यतिरेकात् ॥ ८०८ ॥ एतदेव स्पष्टयन्नाह-ज्ञातादित्यादि ।
ज्ञाताव्यतिरिक्तं चेत्तस्यापि ग्रहणं भवेत् ।
तदेव न वा तस्य ग्रहणं भेद एव वा ।। ८०९॥ तथाहि-दृष्टव्यक्तिसमवेतसामान्यरूपाद्विज्ञातादव्यतिरिक्तं चेदयक्ष्यन्तरालवर्ति सामान्यरूपं तदा तस्यापि प्रहणं भवेत् , गृहीतादमिन्नत्वात् , गृहीतस्वरूपवत् । अब तस्य प्रणं न भवति, तथासत्यगृहीतरूपाव्यतिरेकात्तद्वदृष्टव्यक्तिसमवायिनोऽपि ग्रहणं न स्यात् । अयोभयरूपताऽङ्गीक्रियते तदा स्वभावभेदप्रसनः, परस्सरविरु