________________
सादापारो जलादीनां गमनप्रतिवन्धकः । अगतीनां किमाघारैः सामान्यानां प्रकल्पितैः ॥ ८०२॥ खज्ञानोत्पत्तियोग्यत्वे किमभिव्यक्तिकारणैः। खज्ञानोत्पत्त्ययोग्यत्वे किमभिव्यक्तिकारणैः ॥ ८०३॥ .. यः समर्थः समर्थात्मा व्यञ्जकैः क्रियते यदि ।
भावोऽस्थिरो भवेदेवं दीपव्यङ्गयघटादिवत् ॥ ८०४॥ अगतीनामिति । गतिरहितानाम् । अमूर्तसर्वगतत्वाभ्यां गतेरभावात् । तदमिव्यक्तिलक्षणापि स्थितिरयुक्ता, तथाहि-तद्विषयज्ञानोत्पादनमेव तस्यामिव्यक्तिर्न तु खभावपरिपोषणलक्षणा नित्यस्य स्वभावान्यथाकरणासम्भवात् , ततश्च तस्य यदि स्वत एव ज्ञानोत्पादनसामर्थ्य तदा किमित्यभिव्यक्तिकारणमपेक्षते । अथासामर्थ्य तदा परैरनाधेयविषयत्वान्न तदपेक्षा युक्तिमती । परैराधेयविशेषत्वे चाङ्गीक्रियमाणे सत्यनित्यत्वप्रसङ्गः, ततश्च व्यक्तिवदेवासाधारणत्वान्न सामान्यं स्यात् । भाव इति । भवतोऽस्मादमिधानप्रत्ययाविति कृत्वा कृत्स्न एव सामान्यपदार्थ उच्यते । प्रयोगःयस्य यस्मिन्वृत्तिनिबन्धनं न किंचिदस्ति न तत्तस्मिन्वर्तते, यथा विन्ध्ये हिमवान् , नास्ति च सामान्यस्य भेदेषु वृत्तिनिबन्धनं किंचिदितिं व्यापकानुपलब्धिः॥ ८०२॥ ॥ ८०३ ॥ ८०४ ॥ घटादीत्यादिना दूषणान्तरमप्याह ।
घटादिजातिभेदाश्च स्वाश्रयेष्वेव भाविनः।
सर्वत्र वृत्तिभाजो वा भवेयुः परजातिवत् ।। ८०५ ॥ घटत्वादिजातिभेदादि । घटत्वपार्थिवत्वादयः सर्वगतत्वेन वर्ण्यमानाः कदाचिखाश्रयमात्रव्यापितया वयेरन् , यद्वा व्यक्तिशून्येऽपि देशे सर्वत्र भावादिति पक्षद्वयम् । परजातिवदिति । महाविषयतया सत्ता परेऽत्यभिधीयते । इयं च महाविषयत्वमात्रसाम्येनैव दृष्टान्तीकृता । नतु व्यत्यन्तरालवर्तिदेशव्यापितया, तस्या अपि तवर्माप्रतीतेः ॥ ८०५ ॥ तत्र प्रथमे पक्षे दोषमाह-तत्रेत्यादि ।
तत्र देशान्तरे वस्तुप्रादुर्भावे कथं नु ते। दृश्यन्ते वृत्तिभाजो वा तसिमिति न गम्यते ॥ ८०६॥