________________
पलिकासमेतः।
२५१ यावासनालक्षणस्य कारणदोषस्य विद्यमानत्वात् । तदेवमनया दिशा कुहेतवोऽमी दूष्याः ॥ ७९६ ॥ ७९७ ॥
एवं तावद्विस्तरेण परोक्तसामान्यसाधनानां दूषणममिधाय सामान्यस्य बाधक 'प्रमाणममिधातुकाम आह-अपिचेत्यादि ।
अपिचानेकवृत्तित्वं सामान्यस्य यदुच्यते। तत्र केयं मता वृत्तिः स्थितिः किं व्यक्तिरेव वा ॥ ७९८ ॥ स्वरूपाप्रच्युतिस्तावत्स्थितिरस्य खभावतः । नाधारस्तत्कृतौ शक्तो येन स्थापकता भवेत् ॥ ७९९ ॥ गमनप्रतिबन्धोऽपि न तस्य बदरादिवत् । विद्यते निष्क्रियत्वेन नाधारोऽतः प्रकल्प्यते ॥ ८०० ॥ स्थितिस्तत्समवायचेन्न तथैव विचार्यते ।
सोऽभीष्टोऽयुतसिद्धानामाश्रयाश्रयितात्मकः ॥ ८०१॥ अवश्यं सामान्यस्य भेदेषु वृत्तिरेष्टव्या । अन्यथा कथं तेषु प्रतिनियमेनकाकारा बुद्धिस्तनिबन्धना सेत्स्यति । तत्र च वृत्तिरस्य भवन्ती स्थितिलक्षणा वा भवेत् , तदमिव्यक्तिलक्षणा वा, स्थितिरपि द्विधा-खभावाप्रच्युतिलक्षणा वा, यद्वाऽधोगतिप्रतिबन्धलक्षणा । तत्र न तावदाद्या-नित्यत्वाखत एव स्वभावाप्रच्युतेः सिद्धत्वात् । नापि द्वितीया-अमूर्चसर्वगतत्वाभ्यां निष्क्रियतयाऽधोगमनासम्भवादतो न तत्प्रतिबन्धकत्वसाधारणं युक्तम् । भेदेषु यः सामान्यस्य समवायः सा स्थितिरित्येतदप्यनुत्तरमेव, तस्यैव समवायस्य विचार्यमाणत्वात् । तथाहि-अपृथक्सिद्धानामाश्रयायिभावलक्षणः सम्बन्धः समवाय उच्यते, तश्चाश्रितत्वं सामान्यस्य तत्प्रतिबद्धस्थितितया वा भवेत् , तदभिव्यङ्गितया वेतीदमेव निरूपयितुमारब्धम् । नहि परस्परासङ्कीर्णात्मनामकिञ्चित्करमर्थान्तरं समवायो युक्तोऽतिप्रसङ्गात् । एवं हि सर्वः सर्वस्य समवायः स्यात्, तथाहि-परस्परव्यावृत्तशरीरान्भावान्यः संश्लेषयति स समवायः कल्पितः । न चार्थान्तरसद्भावेऽपि खात्मनि व्यवस्थिताः परस्परस्खभावमन्वाविशन्ति, स्वरूपहानिप्रसङ्गात् । तस्य चार्थान्तरस्य समवाय इति नामकरणे न विवाद इत्ययुक्तमर्थान्तरं स्थितिरिति ॥ ७९८ ॥ ७९९ ॥ ८०० ॥ ८०१ ॥
स्थावित्यादिना सामान्यं प्रत्याधारकल्पनाया अत्यन्तासम्बद्धतां दर्शयति ।