________________
२५८
तत्त्वसङ्ग्रहः। तोऽन्यालम्बनापि वा । तदभावेऽपि सद्भावाटे पार्थिवबुद्धिवत् ॥ प्रत्येकसमवेतार्थविषया वाऽथ गोमतिः । प्रत्येकं कृत्मरूपत्वात्प्रत्येकव्यक्तिबुद्धिवत् ॥ प्रत्येकसमबेताऽपि जातिरेकैकबुद्धितः । नब्युक्तेष्विव वाक्येषु ब्राह्मणादिनिवर्चनम् ।। नैकरूपा मतिर्गोत्वे मिथ्या वक्तुं च शक्यते । नात्र कारणदोषोऽस्ति बाधकप्रत्ययोऽपि वा ॥" इति। तदत्र प्रथमे साधने तावत्साध्यविकलमुदाहरणम् , एकस्य गोत्वस्यासिद्धेस्तन्निबन्धनत्वमेकगोबुद्धेरप्यसिद्धमेव । अथ सामान्येनैकनिबन्धनत्वं साध्यते, तदा सिद्धसाध्यता, विजातीयव्यवच्छेदेन कल्पितैकगोव्यावृत्तिनिवधनत्वस्येष्टत्वात् । न साबलेयागोबुद्धिरित्यत्रापि साक्षात्तदुत्पत्तिनिषेधे साध्ये सिद्धसाध्यता, त(स्यस्खलक्षणानुभवसङ्केतमनस्कारादिव्यवहितत्वात् । अथ परम्परयापि ततो न भवतीति साध्यते, तदा प्रतिज्ञाया अनुभवबाधा दृष्टान्तस्य च साध्यविकलता । अन्यालम्बनत्वेऽपि साध्ये -यदि सन्निहिते साबलेये गौरयमिति या बुद्धिरुत्पद्यते सा ततोऽन्यालम्बनेति साध्यते, तदाऽत्राप्यनुभवविरोधः । तथाहि-सा सन्निहितपिण्डाध्यवसायेनैव व. र्तते । दृष्टान्तस्य च साध्यविकलता । अथ तदसन्निधाने या बाहुलेयादिसन्निधौ तथा प्रवृत्ता बुद्धिः सा ततोऽन्यालम्बनेति साध्यते, तदा सिद्धसाध्यता । यदि तु साक्षाद्वस्तुसदालम्बनेति साध्यते तदाऽनैकान्तिकता । न ह्यस्य किंचित्परमार्थतो वस्तु सदालम्बनमस्तीति प्रतिपादितत्वात् । यच्च प्रत्येकपरिसमाप्तार्थविषयत्वसाधनम् , तत्रापि सामान्येन साध्ये सिद्धसाध्यता, प्रतिपदार्थमतद्रूपपरावृत्तवस्तुरूपाध्यवसायेन प्रवृत्तत्वात् । अथ नित्यैकप्रत्येकपरिसमाप्तवस्तुभूतसामान्याख्यपदार्थविषयत्वं साध्यते, तदा दृष्टान्तस्य साध्यविकलता हेतोश्वानैकान्तिकता, तथाविधेन धर्मेण कचिदप्यन्वयासिद्धेः । एकस्य च सर्वात्मना बहुषु परिसमाप्तत्वे सर्वेषां व्यक्तिभेदानां परस्परमेकरूपतापत्तिः, एकव्यक्तिपरिनिष्ठितस्वभावसामान्यपदार्थसंस्पृष्टत्वादेकव्यतिरूपत्वात् । सामान्यस्य वाऽनेकत्वापत्तियुगपदनेकवस्तुपरिसमाप्तात्मरूपत्वात् , दूरदेशावस्थितानेकभाजनगतबिल्वादिफलवदित्यनुमानबाधा । तेन यदुक्तं-- चात्र बाधकः प्रत्ययोऽस्तीति, तदसिद्धम् । पूर्व चोक्तत्वाद्वक्ष्यमाणत्वाच्च बाधकस्य । यच्चैकत्वसाधनं जातेः, तत्रापि जाते. प्रत्येकसमवेताया असिद्धत्वादेकबुद्धिप्राह्यत्वमसिद्धमित्याश्रयासिद्धो हेतुः । ब्राह्मणादिनिवर्चनं च परमार्थतो नैकमवस्तुत्वादिति साध्यविकलमुदाहरणम् । काल्पनिके चैकत्वे साध्ये सिद्धसाध्यता, कल्पितस्यापोहरूपत्वेनेष्टत्वात् । बवाप्युच्यते-- पात्र कारणदोषोऽस्तीति, तदप्यसिद्धमेब, अनादेरवि.