________________
२५०
पलिकासमेतः। स्तद्गतेन्द्रियसभिकर्षाद्यपेक्षता भविष्यति । आदिग्रहणेनात्ममनःसनिकर्षादिपरिप्रहः । नित्यतया परैरनुपाधेयविशेषत्वान्नाप्यस्य कचिदपेक्षाऽस्ति । ततश्च यदि तखविषयज्ञानोत्पादनसमर्थ तदा सर्वदैव तजनयेत् , अथासमर्थ तदा न कदापि जनयेत् , नहि तस्य तद्रूपं समर्थमसमर्थ वा तत्वचिदन्यथाकर्तुमीशते नित्यत्वहानिप्रसङ्गात् । यथोक्तम्-"तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । नित्यत्वाद. चिकित्स्यस्य कस्तां क्षपयितुं क्षम ॥” इति ॥ ७८९ ॥ ७९० ॥ ७९१ ॥ ७९२ ॥ ॥ ७९३ ॥ ७९४ ॥ ७९५ ॥
यत्रोक्तंगोतश्चान्तरं गोत्वमित्यादि । तस्य पाचकादिमिरनैकान्त इति दर्शयति-गोत इत्यादि।
गोतश्चान्तरं गोत्वं भिन्नधीविषयत्वतः। रूपस्पर्शादिवत्तस्येत्युक्तेश्चैत्रतुरङ्गवत् ॥ ७९६ ॥ इत्यस्मिन्व्यभिचारोक्तिः पाचकत्वादिभिस्तथा ।
अनया च दिशाऽन्येऽपि सर्वे दृष्याः कुहेतवः ॥ ७९७ ॥ तथाहि पाचकादिभ्यः पाचकत्वादेरसत्यप्यर्थान्तरभावे पाचकः पाचक इति मिअधीविषयत्वं भवत्येव, देवदत्तस्य पाचकत्वमिति च व्यतिरेकविभक्तिर्भवतीत्यतः साधारणानैकान्तिकता हेतोः । अन्येऽपि कुहेतव इति । कुमारिलगदिताः । तत्रामी तेन कुहेतव उक्ताः । गोपिण्डभेदेषु या गोबुद्धिरियमेकगोत्वनिबन्धना गवा. भासत्वादेकाकारत्वाच । एकगोपिण्डविषयबुद्धिवत् । अथवा येयं गोबुद्धिः सा साबलेयान भवति, यद्वा तद्व्यतिरिक्तार्थालम्बना, तदभावेऽपि भावात् , यथा घटे पार्थिवबुद्धिः । सर्वगतत्वं कथं तस्य सिद्धमिति चेदुच्यते । येयं गोमतिः सा प्रत्येकसमवेतार्थविषया प्रतिपिडं कृत्स्नरूपपदार्थाकारत्वात् , प्रत्येकव्यक्तिविषयबुद्धिवत् । एकत्वमपि सिद्धमेव, तथाहि यद्यपि सामान्यं प्रत्येकं सर्वात्मना परिसमाप्तम् , तथापि तदेकमेव, एकाकारबुद्धिग्राह्यत्वात् , यथा नब्युक्तेषु ब्राह्मणादिनिवर्त्तनम् । न चैतच्छक्यं वक्तुम्-भिन्नेषु योऽयमभिन्नाकारप्रत्ययः स भ्रान्तस्तेन तद्बलाद्वस्तुतस्वव्यवस्थानमसङ्गतमिति, यतो नास्य कारणदुष्टताऽस्ति । नापि बाधकप्रत्ययोद्भवस्तस्मान्मिध्यात्वनिबन्धनाभावादयुक्तमेतदिति । आह च-"पिण्डभेदेषु गोबुद्धिरेकगोत्वनिबन्धना । गवाभासैकरूपाभ्यामेकगोपिण्डबुद्धिवत् ॥ न साबलेयाबोबुद्धिस्त