________________
तत्त्वसङ्ग्रहः। केवलस्योपलम्भे वा न व्यक्तीनामिदं भवेत्। सामान्यं न च तद्व्यङ्ग्यं विन्ध्यस्येव हिमालयः ॥ ७९१॥ नोत्पत्तिपारतव्येण प्रतिबद्धं हि ताखिदम्। न ज्ञानपारतज्यं च नित्यत्वात्केवलग्रहात् ॥ ७९२ ॥ खाश्रयेन्द्रिययोगादिव्यपेक्षाया असम्भवात् । तत्सदैवोपलभ्येत यदि वा न कदाचन ॥ ७९३ ॥ खात्मनि ज्ञानजनने योग्यं वाऽयोग्यमेव वा । ययेकदा तदा रूपं सर्वदैव हि तद्भवेत् ॥ ७९४ ॥ तस्य योग्यमयोग्यं वा रूपं यत्प्रकृतिस्थितम् ।
तद्रौव्यादप्रकम्प्यं हि को नाम चलयिष्यति ॥ ७९५ ॥ इच्छया रचितं रूपं स्वभावो यस्य स तथोक्तः, स आदिर्यस्येति विग्रहः । आदिशब्देन नष्टाजातपरिग्रहः । नहि तत्र कल्पितादिषु सामान्यमस्ति, येन तन्निबन्धना तेषु मतिः स्यात् । स्यादेतन्माभूत्कल्पितेषु सामान्यम् , अतीताजाते तु तन्निबन्धना बुद्धिर्भविष्यतीति, तदेतन्मिथ्या, न ह्याश्रितानामयं धर्मो यदाश्रयमन्तरेणापि केवलानामवस्थानं भवेत्, अनाश्रितत्वप्रसङ्गात् । भवतु नाम केवलानामवस्थानं तथापि दोष एव, केवलस्य सामान्यस्य प्रहणानभ्युपगमात् । तथाचोक्तं"स्वाश्रयेन्द्रियसन्निकर्षापेक्षप्रतिपत्तिकं सामान्य"मिति । केवलस्य सामान्यस्य ग्रहणे सामान्यधियो व्यक्तिव्यवसायो न प्राप्नोति व्यक्तेस्तदानीमभावात् । व्यक्तीनामिदं सामान्यमिति संबद्धश्च न स्यात् , निबन्धनाभावात् । तथाहि-निबन्धनं भवत्संबन्धस्य तद्व्यङ्ग्यत्वं वा सामान्यस्य भवेत् , तज्जन्यता वा, तद्हणापेक्षग्रहणता वा । तत्र न तावत्वामिर्व्यङ्ग्यत्वात्तत्संबद्धं सामान्यं, नित्यतया परैरनुपकार्यस्य विशेषाभावाव्यङ्ग्यत्वानुपपत्तेः । यो हि यस्यानुपकारकः स तस्यामिव्यजको न भवति, यथा विन्ध्यस्य हिमवान् । तथाच व्यक्तयः सामान्यस्येति व्यापकविरुद्धोपलब्धेः । अनुपकारकस्यापि व्यजकत्वेऽतिप्रसङ्गः, सर्वः सर्वस्य व्यखकः स्यात् । अत एव नित्यतया तस्याभ्युपगतत्वाचासु नोत्पत्तिपारतव्यमपि तस्य युक्तम् । केवलस्यापि प्रहणानापि तज्ज्ञानपारतव्यमिति, त्रयाणामपि पक्षाणामसम्भवः । ततश्च यदिदमुच्यते खाश्रयेन्द्रिय सन्निकर्षापेक्षप्रतिपत्तिकं सामान्यमिति सद्युक्तमाश्रयस्यैवायोगात् , कुत